मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् १४

संहिता

महि॒ ज्योति॒र्निहि॑तं व॒क्षणा॑स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः ।
विश्वं॒ स्वाद्म॒ सम्भृ॑तमु॒स्रिया॑यां॒ यत्सी॒मिन्द्रो॒ अद॑धा॒द्भोज॑नाय ॥

पदपाठः

महि॑ । ज्योतिः॑ । निऽहि॑तम् । व॒क्षणा॑सु । आ॒मा । प॒क्वम् । च॒र॒ति॒ । बिभ्र॑ती । गौः ।
विश्व॑म् । स्वाद्म॑ । सम्ऽभृ॑तम् । उ॒स्रिया॑याम् । यत् । सी॒म् । इन्द्रः॑ । अद॑धात् । भोज॑नाय ॥

सायणभाष्यम्

वक्षणासु । वक्ष्यन्ते यासूदकानीति वक्षणा नद्यः । तासु महि महत् ज्योतिर्ज्योतिष्मदुदकं निहितमिन्द्रेणामा नवसूतिका गौः पक्वं क्षीरादिकं बिभ्रती दधाना सती चरति । सर्वत्र वर्तते । यद्यस्मादुदकात्साद्य स्वादुतरं सम्भृतं स्वेन सम्पादितं दधिघृतक्षीरादिकं सीमेतद्विश्वं सर्वमुस्रियायां गवि भोजनायेन्द्रोऽदधात् । तस्मात्क्षीरादिकं बिभ्रती गौश्चरतीति पूर्वेणान्वयः ॥ वक्षणासु । वक्ष रोषे । अस्मात्करणादधिकरणयोश्चेति करणे ल्युट् । लित्स्वरः । पक्वम् । पचतेर्निषातकारस्य पचो व इति वत्वं प्रत्ययस्वरः । चरति । चरतिर्गत्यर्थः । बिभ्रती दुभ्रञ् चारणपोषणयोः । जुहोत्यादिः । शतुरुगित्त्वादुगितश्चेतिङीप् अध्वस्तानामादिरित्याद्युदात्तत्वम् । उस्रियायाम् । वस निवासे । स्फायितञ्चीत्यादिनाधिकरणे रक्मत्ययः । यजादित्वात्सम्प्रसारणम् । शासिवसिघसीनां चेति षस्वाभावश्छान्दसः । स्वार्थिको घप्रत्ययः । प्रत्ययस्वरः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः