मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् ४

संहिता

अ॒भि जैत्री॑रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् ।
तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षास॒ः पति॒र्गवा॑मभव॒देक॒ इन्द्र॑ः ॥

पदपाठः

अ॒भि । जैत्रीः॑ । अ॒स॒च॒न्त॒ । स्पृ॒धा॒नम् । महि॑ । ज्योतिः॑ । तम॑सः । निः । अ॒जा॒न॒न् ।
तम् । जा॒न॒तीः । प्रति॑ । उत् । आ॒य॒न् । उ॒षसः॑ । पतिः॑ । गवा॑म् । अ॒भ॒व॒त् । एकः॑ । इन्द्रः॑ ॥

सायणभाष्यम्

जैत्रीर्जित्वर्यो विशो मरुतः स्पृधानं वृत्रेण सह स्पर्धमानमिन्द्रमभ्यसचन्त । सर्वतः समगच्छन् । ते च मरुतस्तस्मिन्वृत्रे हते महि महत् ज्योतिः सूर्याख्यं तेजस्तमसस्तमोरूपाद्बृत्रान्निरजानन् । निर्गतमज्ञासिषुः । तत इन्द्रं वृत्रहन्तारमुदितं सूर्यं जानतीर्जानाना उषसस्तं प्रत्युत् अभिलक्ष्यैव आयन् प्राप्नुवन् । अथ तत्रोद्भूतानां गवां रश्मीनामेकोऽद्वितीय एवेन्द्रः पतिरभवत् । जैत्रीः । जयतेस्तृनि रूपम् । गुणस्य स्थाने व्यत्ययेन वृद्धिः । नित्स्वरः । असचन्त । षच समवाय इत्यस्य लङि रूपम् । स्पृधानम् । स्पर्ध सङ्घर्षे । छन्दसि कानजादेशः । छन्दसि द्विर्वचनस्य विकल्पितत्वाद्द्विर्वचनाभावः । चित्स्वरः । अजानन् । ज्ञा अवबोहन इत्यस्य लङि रूपम् । निघातः । आयन् । अय प गतावित्यस्य लङि रूपं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः