मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् ५

संहिता

वी॒ळौ स॒तीर॒भि धीरा॑ अतृन्दन्प्रा॒चाहि॑न्व॒न्मन॑सा स॒प्त विप्रा॑ः ।
विश्वा॑मविन्दन्प॒थ्या॑मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ॥

पदपाठः

वी॒ळौ । स॒तीः । अ॒भि । धीराः॑ । अ॒तृ॒न्द॒न् । प्रा॒चा । अ॒हि॒न्व॒न् । मन॑सा । स॒प्त । विप्राः॑ ।
विश्वा॑म् । अ॒वि॒न्द॒न् । प॒थ्या॑म् । ऋ॒तस्य॑ । प्र॒ऽजा॒नन् । इत् । ता । नम॑सा । आ । वि॒वे॒श॒ ॥

सायणभाष्यम्

पुरा किलाङ्गिरसां गावः पणिनामकैरसुरैरपहृत्य निघ्ढे कस्मिञ्चित्पर्वते स्थापिताः । ते चाङ्गिरसस्त्वस्तत्प्राप्त्यर्थमिन्द्रं तुष्टुवुः । स्तुतश्च स इन्द्रो गवानेषणाय देवशुनीं प्राहिणोत् । सा च गवां गवेषणपरा सती तत्स्थानमलभता । तया विज्ञापित इन्द्रस्ता गा आनीयाङ्गिरोभ्यः प्रादादित्यैतिहासिकी कथा । तथा चास्या ऋचोऽयमर्थः । धीरा धीमन्तः सप्त विप्रा मेधाविनः सप्तसङ्ख्याका अङ्गिरसो वीळौ दृढे पर्वते सतीर्निरुद्धाः सतीर्गा अभि अभिलक्ष्यातृन्दन् । निधानमपावृण्वन् । उपेक्षामकुर्वन् । ततस्तेऽङ्गिरसः पर्वतविले गावः सन्तीति मनसा निश्चित्य प्राचा येन मार्गेण प्रविष्टास्तेनैव प्राचीनेन मार्गेण ता गा अहिन्वन् । निरगमयन् । यद्वा प्राचा । प्रकर्षेणेन्द्रमञ्चति प्राप्नोतीति प्राक् । तेनेन्द्रविषयेण मनसा । मन्यत इति मनः स्तोत्रं । तेन स्तोत्रेणाहिन्वन् । अवर्धयन् । इन्द्रं तुष्टमकुर्वन् । स्तुत्वा च ऋतस्य पथ्यां यज्ञस्य मार्गे साधुभूतां विश्वां सर्वामपहृतां गामविन्दन् । अलभन्त । ततः स इन्द्रस्ता तान्यङ्गिरसां कर्माणि प्रजानन्नित् प्रकर्षेण जानन्निन्द्रो नमसा नमस्कारेणाङ्गिरसः सम्भावयन् तैरधिष्ठितं पर्वतमाविवेश ॥ अतृन्दन् । उतृदिर्हिम्सानादरयोरित्यस्य लङि रुधादित्वात् श्नम् । तस्य श्नसोरित्यल्लोपः । निघातः । प्राचा । अन्चेश्छन्दस्य सर्वनामस्थानमिति विभक्तेरुदात्तत्वं । अघ्न्वन् । हि गतिवर्धनयोरित्यस्य लङि रूपं । अविन्दन् । विद्लृ लाभ इत्यस्य लङि मुचाधित्वान्नुम् । निघातः । पथ्यां । पथि साधुरित्यर्थे तत्र साधुरिति यत्प्रत्ययः । यचिधमिति भसंज्ञायां नस्तद्धित इति टिलोपः । यतोऽनाव इत्यसानित्यत्वात्तित्स्वरित इति स्वरितः । विवेश । विश प्रवेशन इत्यस्य लिटि रूपं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः