मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् ७

संहिता

अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू॑दयत्सु॒कृते॒ गर्भ॒मद्रि॑ः ।
स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा॑भव॒दङ्गि॑राः स॒द्यो अर्च॑न् ॥

पदपाठः

अग॑च्छत् । ऊं॒ इति॑ । विप्र॑ऽतमः । स॒खि॒ऽयन् । असू॑दयत् । सु॒ऽकृते॑ । गर्भ॑म् । अद्रिः॑ ।
स॒सान॑ । मर्यः॑ । युव॑ऽभिः । म॒ख॒स्यन् । अथ॑ । अ॒भ॒व॒त् । अङ्गि॑राः । स॒द्यः । अर्च॑न् ॥

सायणभाष्यम्

विप्रतमोऽतिशयेन मेधावी श्खीयन् अङिरसोभिः साकमात्मनः सखित्वमिच्छन् इन्द्रोऽगच्छत् । गोभिरधिष्ठितं पर्वतमगमदेव । सोऽद्रिः सखित्वमिच्छन् सुकृते सुष्ठु युद्धकर्त्र इन्द्राय गर्भं गवात्मकं गर्भमसूदयत् । निरगमयत् । युवभिर्नित्यतरुणैमरुद्भिः सह मखस्यन् गोधनमङ्गीरसामिच्छन् मर्योऽसुराणां मारयितेन्द्रः ससान । असुरैरपहृतास्ता गा भेजे । अथानन्तरमङ्गिराः सप्तानामङ्गिरसां मध्ये वरिष्ठोङ्गिरा ऋषिरिन्द्रात्ता गा लब्ध्वा सद्यस्तदानीमेवार्चन् इन्द्रं पूजयन्नभवत् । आगच्छत् । गमेर्लङि रूपम् । सखीयन् । सुपः आत्मनः क्यच् । असूदयत् । षूद निरास इत्यस्य ण्यंशस्य लङि रूपम् । ससान । षण सम्भक्ता वित्यस्य लिटि णलि रूपम् । लित्स्वरः । व खस्यन् । छन्दसि परेच्छायामिति परेच्छायामपि क्यच् । सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्य इति सुगामः । एकादेशस्वरः । अङ्गिराः । सृ गतौ । अङ्गारशब्द उपपदे सर्तेर्धातोरसुन्प्रत्ययः । उपपदे गकारात्परस्येत्वमन्त्यलोपश्च धातोर्लोपश्च अङ्गिराः । उ. ४-२३५ । इति सूत्रेण नोपात्यते । भुतकालेऽङ्गारेभ्यः सृत इत्यङ्गिरा ऋषिः । अङ्गारेष्वङ्गिरा इति यास्कः । नित्स्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः