मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् १०

संहिता

स॒म्पश्य॑माना अमदन्न॒भि स्वं पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा॑नाः ।
वि रोद॑सी अतप॒द्घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ॥

पदपाठः

स॒म्ऽपश्य॑मानाः । अ॒म॒द॒न् । अ॒भि । स्वम् । पयः॑ । प्र॒त्नस्य॑ । रेत॑सः । दुघा॑नाः ।
वि । रोद॑सी॒ इति॑ । अ॒त॒प॒त् । घोषः॑ । ए॒षा॒म् । जा॒ते । निः॒ऽस्थाम् । अद॑धुः । गोषु॑ । वी॒रान् ॥

सायणभाष्यम्

स्वं स्वकीयं गोधनमभि अभिलक्ष्य सम्पश्यमाना मदीया एता गाव इत्यात्मीयतया जानानास्तेऽङ्गिरसः प्रत्नस्य पुरा जातस्य रेतसस्तदुपलक्षितस्य पुत्रस्य धारणार्थं पयो दुघानास्ता गाः पयो दुहन्तः सन्तोऽमदन् । अह्यष्यन् । एशामङ्गिरसां घोषो हर्षादुत्पन्नो महाध्वनिः स्तुतिजातो वा रोदसी द्यावा पृथिवौ व्यतपत् । ते व्याप्यातपिष्ट । ततस्तेऽङ्गिरसो जात आत्मि यतया सम्पत्नी चराचरात्मके वस्तुनि निष्थां पूर्वं यथा स्थिमकार्षुः । तथा गोष्वाहृतासु वीरान् रक्षाकर्मण्यतिशूरान्पुरुषानदधुः । स्थापयामासुः ॥ सम्पश्यमानाः । संपूर्वस्य दृशेर्दृशेश्चेति वक्त्व्यमित्यात्मनेपदम् । शनाचो लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः । अमदन् । मदी हर्ष इत्यस्य लुङि णिच्यङे रूपम् । निघातः । दुघानाः । दुह प्रपूरण इत्यस्मात् शानच् । अदादित्वाच्छपो लुक् । घत्वं छान्दसम् । वृषादित्वादाद्युदात्तः अतपत् । विपूर्वस्य तपतेरत्र सकर्मकत्वादात्मनेपदाभावः । लङि रूपं घोषः । घुष सम्शब्दने । घञन्तः । ञिओत्स्वरः । निष्थाम् । ष्ठा गतिनिवृत्तौ । स्थः क च । पा. ३-२-७७ । इति क्विप् । कृदुत्तरस्वरः । अदधुः । दधातेर्लङि झेः सिजभ्यस्तेति जुसादेशः । वाक्यभेदान्निघाताभावः । गोशु । सावेकाच इति विघक्तेरुदात्तत्वे प्राप्ते न गोश्वन्निति प्रतिषिद्धत्वात्प्रातिपदिकस्वरः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः