मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् १६

संहिता

अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॒॑ दमू॑ना॒ः प्र स॒ध्रीची॑रसृजद्वि॒श्वश्च॑न्द्राः ।
मध्व॑ः पुना॒नाः क॒विभि॑ः प॒वित्रै॒र्द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ॥

पदपाठः

अ॒पः । चि॒त् । ए॒षः । वि॒ऽभ्वः॑ । दमू॑नाः । प्र । स॒ध्रीचीः॑ । अ॒सृ॒ज॒त् । वि॒श्वऽच॑न्द्राः ।
मध्वः॑ । पु॒ना॒नाः । क॒विऽभिः॑ । प॒वित्रैः॑ । द्युऽभिः॑ । हि॒न्व॒न्ति॒ । अ॒क्तुऽभिः॑ । धनु॑त्रीः ॥

सायणभाष्यम्

दमूनाः । दान्तं मनो यस्यासौ दमूनाः । दान्तमनाः । यद्वा दामैतीति दमूनाः । उपरत इत्यर्थः । स एष एवेन्द्रो विभ्वो व्याप्ताः सध्रीचीः परस्पर सङ्गता विश्वश्चन्द्रा विश्वस्याह्लादयित्रीः । विश्वस्याह्लादो याभ्यस्ता इति वा । एवं भूता अपश्चिदपोऽपि प्रासृजत् । सृष्तवान् । सृष्टाश्च ता आपो मध्वो माधुर्योपेणन्सोमान्कविभिः पवित्रैरग्निवाहुसूर्यै पुनानाः शोधयित्र्यो धनुत्रीः सर्वस्य जगतः प्रीणयित्र्यः सत्यो द्युभिर्दिवसैरक्तुभी रात्रिभिर्हिन्वन्ति । रात्रिदिवं सर्वं जगत्स्वस्वव्यापारप्रवणं कुर्वन्तीत्यर्थः । दमूनाः । दमु उपशमे । दमेरूनसिरत्यूनसिप्रत्ययः । दाम्यतीति दमूनाः । यद्वा दान्तशब्दस्य दभावो मनसो मकारात्परस्याकारस्य ऊकारश्छान्दास्ः । असृजत् । सृज विसर्गे । हिन्वन्ति । हि गतौ । निघातः । धनुत्रीः । धन धान्य इत्यस्मादशित्रादित्वादुत्रप्रत्ययः । शार्ङरवादिषु ङीन् द्रष्टव्यः । नित्स्वरः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः