मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् २१

संहिता

अदे॑दिष्ट वृत्र॒हा गोप॑ति॒र्गा अ॒न्तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् ।
प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥

पदपाठः

अदे॑दिष्ट । वृ॒त्र॒ऽहा । गोऽप॑तिः । गाः । अ॒न्तरिति॑ । कृ॒ष्णान् । अ॒रु॒षैः । धाम॑ऽभिः । गा॒त् ।
प्र । सू॒नृताः॑ । दि॒शमा॑नः । ऋ॒तेन॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥

सायणभाष्यम्

वृत्रहा वृत्रस्य हन्ता गोपतिर्गवां स्वामी सन्निन्द्रो गा अदेदिष्ट । अस्मभ्यं दिशतु । तथा कृष्णान् कर्मविघ्नकारिणोऽसुरानरुषैरारोचमानैर्धामभिस्तेजोभिरन्तरन्तर्धानं विनाशं गात् । गमयतु । तथा सूनृताः प्रियतमा गा ऋतेन प्रतारणवर्जितेन सत्येन वाक्येन प्रदिशमानोऽङ्गिरोभ्यः प्रदिशन्निन्द्रो विश्वाः सर्वाणि दुरो गवां स्वेच्छया निर्गमनद्वाराणि स्वाः स्वकीया गाश्चापावृणोत् । व्रजे गाः स्थापियित्वा तानि द्वाराण्याच्छादितवानित्यर्थः ॥ अदेदिष्ट । दित अतिसर्जन इत्यस्माद्यङ्लुङिलङि व्यत्ययेनात्मनेपदम् । अडागमस्वरः । गोपतिः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरः । गात् । इण् गतौ । अन्तर्भावितण्यर्थः । दिशमान । दिशेर्व्यत्ययेन शानच् । तस्य लसार्वधातुकस्वरेणानुदात्तत्वे शस्वरः । आवृणोत् । वृञ् वरण इत्यस्य लङि रूपम् ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः