मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३२, ऋक् ६

संहिता

त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ अत्याँ॑ इव॒ प्रासृ॑ज॒ः सर्त॒वाजौ ।
शया॑नमिन्द्र॒ चर॑ता व॒धेन॑ वव्रि॒वांसं॒ परि॑ दे॒वीरदे॑वम् ॥

पदपाठः

त्वम् । अ॒पः । यत् । ह॒ । वृ॒त्रम् । ज॒घ॒न्वान् । अत्या॑न्ऽइव । प्र । असृ॑जः । सर्त॒वै । आ॒जौ ।
शया॑नम् । इ॒न्द्र॒ । चर॑ता । व॒धेन॑ । व॒व्रि॒ऽवांस॑म् । परि॑ । दे॒वीः । अदे॑वम् ॥

सायणभाष्यम्

हे इन्द्र त्वं देवीर्देवनशीला अपः परि वर्विवांसं परित आवृत्य वर्तमानं अत एवा देवं बहूदकतयास्वच्छत्वेनाप्रथ्भासमानं शयानमेकत्र निश्चलतया वर्तमानं वृत्रं मेघं यद्यदा चरता तमुद्दिश्य वर्तमानेन वधेन युद्धेन जघन्वान् हतवानसि तदा त्वमाजौ युद्धे सर्तवै अतिवेगगमनायात्यानिव यथाश्वान् प्रेरयसि तथा त्वमप उदकान्यन्तरिक्षादाकाशात् प्रासृजो ह । प्रकर्षेण मेघभेदनं कृत्वासृजः खलु । तं यजाम इत्युत्तरेणान्वयः । जघन्वान् । हन हिंसागत्योरित्यस्य क्वसौ विभाषा गमहनविदविशामितीटो विकल्पितत्वादत्रेडभावः । अभ्यासाच्चेति हकारस्य घत्वम् । प्रत्ययस्वरः । असृजः । सृज विसर्गे । शविकरणी । यद्योगादनिघातः । सर्तवै । सृ गतौ । तुमर्थे तवैप्रत्ययः । अन्तश्च तवै युगपदिति धातोः प्रत्ययस्य चोदात्तत्वं आजौ । अज गतिक्षेपणयोः । आज्यतिभ्यां च । उ. ४-१३- । इति इण्प्रत्ययः । णित्वादुपधावृद्धिः । अजन्ति गच्छन्त्यस्मिन्नित्याजिर्युद्धम् । प्रत्ययस्वरः । सर्तवाजावित्यत्र संहितायामायादेशे कृते तत्य लोपः साकल्यस्येति यकारलोपः । सर्वविधीनां छन्दसि विकओपितत्वात्सवर्णदीर्घत्वे कर्तव्ये य लोपो नासिद्धो भवति । सवर्णदीर्घः । शयानम् । शीङ् स्वप्ने । शानच् । अदादित्वाच्छपोलुक् । ङित्वाल्लसार्वधातुकस्वरेण शानचोऽनुदात्तत्वे धातुस्वरः । वधेन । हन्तेर्भावे हनश्च वध इत्यप्प्रत्ययो वधादेशश्च धातोरन्तोदात्तश्च । वव्रिवांसम् । वृञ् वरण इत्यस्य क्वसाविडागमश्छान्दसः । प्रत्ययस्वरः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०