मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३२, ऋक् ९

संहिता

अद्रो॑घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो अपि॑बो ह॒ सोम॑म् ।
न द्याव॑ इन्द्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासा॑ः श॒रदो॑ वरन्त ॥

पदपाठः

अद्रो॑घ । स॒त्यम् । तव॑ । तत् । म॒हि॒ऽत्वम् । स॒द्यः । यत् । जा॒तः । अपि॑बः । ह॒ । सोम॑म् ।
न । द्यावः॑ । इ॒न्द्र॒ । त॒वसः॑ । ते॒ । ओजः॑ । न । अहा॑ । न । मासाः॑ । श॒रदः॑ । व॒र॒न्त॒ ॥

सायणभाष्यम्

आद्रोघ द्रोहवर्जित हे इन्द्र तव तन्महित्वं तादृशं माहात्म्यं सत्यं यथार्थम् । यद्यस्माज्जायत उत्पन्नः सद्यस्तदानीमेव सोममस्माभिर्दीयमानं सोमरसमपिबः । ह प्रसिद्धौ । किञ्च तवसो बल्स् वतस्ते तवौजः सामर्थ्यं द्यावो दिवोपलक्शिताः सर्वे लोका न वरन्त । न वारयन्ति । किञ्च । आहा प्रतिपादीन्यहानि न वारयन्ति । तथा मसाश्चैत्राद्याः शरदः संवत्सराश्च तव सामर्थ्यं न वारयन्ति । किन्तु तव सामर्थ्यमनुसृत्य सर्वे वर्तन्त इति भावः ॥ आद्र्ह्घ । आमन्त्रितस्य चेति षाष्ठिकमाद्युदात्तत्वम् । अपिबः । यद्योगादनिघातः । मासाः । मसी परिमाणे । मस्यते परिमीयते त्रिंशता दिनैरिति मासः । कर्मणि घञ् । ञित्त्वादाद्युदात्तः । शरदः । शॄ हिंसायामित्यस्मात् शॄदॄभसोऽदिरित्यधिकरणेऽदिप्रत्ययः । शीर्यतेऽस्यां तृणगुल्मवनस्पतीनां तेजांसीति शरत् । प्रत्ययस्वरः । वरन्त । वृञ् वरणे । अन्तर्भावितण्यर्थोऽत्र निवारणे वर्तते । भौवादिकः । छान्दसे लङि रूपम् । निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०