मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३२, ऋक् ११

संहिता

अह॒न्नहिं॑ परि॒शया॑न॒मर्ण॑ ओजा॒यमा॑नं तुविजात॒ तव्या॑न् ।
न ते॑ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया॑ स्फि॒ग्या॒३॒॑ क्षामव॑स्थाः ॥

पदपाठः

अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । ओ॒जा॒यमा॑नम् । तु॒वि॒ऽजा॒त॒ । तव्या॑न् ।
न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । भू॒त् । अध॑ । द्यौः । यत् । अ॒न्यया॑ । स्फि॒ग्या॑ । क्षाम् । अव॑स्थाः ॥

सायणभाष्यम्

तुविजात बहूनि जातानि पृथिवादीनि यस्मात्सोऽयं तुविजातः । हे तुविजात इन्द्र तव्यानतिशयेन प्रवृद्धस्त्वमर्णः परिशयानमुदकं परितः शयानमुदकमन्तः कृत्वा परितो वर्तमानं अत एवऔजायमानं बलमाचरन्तमहिम् । आ समन्ताद्धन्त्य पहरत्युदकमित्यहिर्मेघः । तमिमं मेघमहन् । उदकप्रेरणाय हतवानसि । अध अथ ते महित्वं महिमानं द्यौर्नानुभूत् । नानुभवसि । न जानाति । यद्यस्मात्त्वमन्ययैकतरया स्फिग्या कट्या क्षां भूमिमवस्थाः । अवच्छाद्य तिष्ठसि ॥ अहन् । हन्तेर्लङि सिब्लोपे रूपम् । आहिम् । हन हिम्सागत्योः । आङि श्रिहनिभ्यां ह्रस्वश्चेति इण्प्रत्ययः डिच्च पूर्वपदस्य ह्रस्वश्च । वृषादित्वादाद्युदात्तत्वम् । ओजायमानम् । ओजः शब्दादाचारार्थे कर्तुः क्यङ् सलोपश्चेति क्यङ् प्रत्ययः सलोपश्च । ङित्त्वादात्मनेपदम् । प्रत्ययस्वरः । तव्यान् । तु इति सौत्रो धातुः । अस्मात्तृजन्तात्तुश्छन्दसीतीयसुन् । तुरिष्ठेमेयः स्विति तृचो लोपः । भसंज्ञायामोर्गुणः । इकारलोपश्छान्दसः । नित्स्वरः । भूत् । भवतेर्लुङि रूपम् । स्फ्ग्या । यचि भमिति भसंज्ञां भाधित्वा स्वादिष्वसर्वसामस्थान इति पदसंज्ञायां जश्त्वम् । तृतीयायाः पुर्वसवर्णः । क्षाम् । क्शि निवासगत्योः । आन्येभ्योऽपि दृश्यत इति निरुपपदादपि ड प्रत्ययः । ततष्टाप् । क्शियन्ति निवसन्त्यस्यां प्राणिन इति क्शा भूमिः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । अवस्थाः । वस आच्छादन इत्यस्य लङ्यनुदात्तत्वादात्मने पदम् । थास्यदादित्वा च्छपो लुक् । यद्योगादनिघातः । अडागमस्वरः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११