मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३३, ऋक् २

संहिता

इन्द्रे॑षिते प्रस॒वं भिक्ष॑माणे॒ अच्छा॑ समु॒द्रं र॒थ्ये॑व याथः ।
स॒मा॒रा॒णे ऊ॒र्मिभि॒ः पिन्व॑माने अ॒न्या वा॑म॒न्यामप्ये॑ति शुभ्रे ॥

पदपाठः

इन्द्रे॑षिते॒ इतीन्द्र॑ऽइषिते । प्र॒ऽस॒वम् । भिक्ष॑माणे॒ इति॑ । अच्छ॑ । स॒मु॒द्रम् । र॒थ्या॑ऽइव । या॒थः॒ ।
स॒मा॒रा॒णे इति॑ स॒म्ऽआ॒रा॒णे । ऊ॒र्मिऽभिः॑ । पिन्व॑माने॒ इति॑ । अ॒न्या । वा॒म् । अ॒न्याम् । अपि॑ । ए॒ति॒ । शु॒भ्रे॒ इति॑ ॥

सायणभाष्यम्

हे नदौ इन्द्रेशिते इन्द्रेण प्रेशिते प्रसवं तस्येन्द्रस्यानुज्ञां भिक्षमाणे प्रार्थयमाने युवां समुद्रमच्छाभिमुख्येन याथः । गच्छथः । तत्र दृष्टान्तः । रथ्येवेति । यथा रथिनौ लक्श्यं देशमभिगच्छतस्तद्वत् । किं कुर्वत्यौ । समाराणे परस्परं संगच्छन्त्यावूर्मिभिस्तरङ्गैः पिन्वमाने परिसरप्रदेशं सन्तर्पयन्त्यौ शुभ्रे शोभमाने । युवां समुद्रं गच्छथ इति पूर्वेणान्वयः । तथा वां युवयोर्मध्येऽन्यैकान्यामपरां नदीमप्येति । अपिगच्छति । परस्पमैक्यमापद्यत इत्यर्थः । इन्द्रेषिते । इश गतावित्यस्य कर्मणि निष्ठायास्तीषसहेत्यादिना इडागमः । तृतीया कर्मणीति पूर्वपदस्वरः । प्रसवम् । षू प्रेरण इत्यस्याप् । थाथादिस्वरः । भिक्षमाणे । भिक्श यज्ञायाम् । आत्मनेपदी । शानचो लसार्वधातुकस्वरेणानुदात्तत्वे धातुस्वरः । रथ्येव । रथस्येमौ । तस्येदमित्यर्थे रथाद्यदिति यत्प्यत्ययः । तित्स्वरितः । इवेन विघक्त्यलोपः । याथः । यातेर्लटि रूपम् । समाराणे । ऋ गतावित्यस्य लिट् । संपूर्वस्यर्तेः समो गमीत्यादिनात्मनेपदत्वात्तस्य कानजादेशः । ऋच्छत्यूतामिति गुणः । पिन्वमाने । पिवि सेचने । भूवादिः । लसार्वधातुकस्वरेण शानचोऽनुदात्तत्वे धातुस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२