मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३३, ऋक् ३

संहिता

अच्छा॒ सिन्धुं॑ मा॒तृत॑मामयासं॒ विपा॑शमु॒र्वीं सु॒भगा॑मगन्म ।
व॒त्समि॑व मा॒तरा॑ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चर॑न्ती ॥

पदपाठः

अच्छ॑ । सिन्धु॑म् । मा॒तृऽत॑माम् । अ॒या॒स॒म् । विऽपा॑शम् । उ॒र्वीम् । सु॒ऽभगा॑म् । अ॒ग॒न्म॒ ।
व॒त्सम्ऽइ॑व । मा॒तरा॑ । सं॒रि॒हा॒णे इति॑ स॒म्ऽरि॒हा॒णे । स॒मा॒नम् । योनि॑म् । अनु॑ । स॒ञ्चर॑न्ती॒ इति॑ स॒म्ऽचर॑न्ती ॥

सायणभाष्यम्

हे नद्यौ मातृतमामतिशयेन मातरं सिन्धुं स्रवन्तीं शुतुद्रीं त्वामच्छाभिमुख्येनायासम् । विश्वामित्रोऽहं प्राप्तोऽभूवम् । उर्वीं महतीं सुभगां सौभाग्यवतीं विपाशं त्वामगन्म । वयं प्राप्ताः स्मः । किं कुर्वत्यौ । मातरा मातरौ द्वे धेनू वत्समिव संरिहाणे । अन्तर्णीतसनर्थो लिहिः । जिह्वया लेढुमिच्छन्तौ यथा वत्समनुगच्छतस्तद्वत् समानमेकं योनिं स्थानं समुद्रमनु अभिलक्श्य सञ्चरन्ती सम्यप् चरन्त्यौ । युवामयासिषमिति पूर्वेणान्वयः ॥ अयासम् । याप्रापण इत्यस्य रूपम् । इदभावश्छान्दसः । अगन्म । गमेर्लङि बहुलं छन्दसीति शपो लुक् । म्वोश्चेति मकारस्य नकारः । निघातः । सञ्चरन्ती । चरतिर्गत्यर्थः । तृतीयायुक्तत्वाभावादात्मनेपदाभावः । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२