मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३३, ऋक् १२

संहिता

अता॑रिषुर्भर॒ता ग॒व्यव॒ः समभ॑क्त॒ विप्र॑ः सुम॒तिं न॒दीना॑म् ।
प्र पि॑न्वध्वमि॒षय॑न्तीः सु॒राधा॒ आ व॒क्षणा॑ः पृ॒णध्वं॑ या॒त शीभ॑म् ॥

पदपाठः

अता॑रिषुः । भ॒र॒ताः । ग॒व्यवः॑ । सम् । अभ॑क्त । विप्रः॑ । सु॒ऽम॒तिम् । न॒दीना॑म् ।
प्र । पि॒न्व॒ध्व॒म् । इ॒षय॑न्तीः । सु॒ऽराधा॑ । आ । व॒क्षणाः॑ । पृ॒णध्व॑म् । या॒त । शीभ॑म् ॥

सायणभाष्यम्

गव्यवो गा आत्मन इच्छन्तो भरता भरतकुलजाः सर्वेऽतारिषुः । तां नदीं समतरन् । विप्रो मेधावी विश्वामित्रो नदीनां सुमतिं शोभनां स्तुतिं समभक्त । समभजत । यूयं तु यथा पूर्वमिषयन्तीः कुल्यादिद्वारान्नं कुर्वाणा अत एव सुराधाः शोभनधनोपेता यूयं वक्शणाः कृत्रिमसरितः कुल्याः प्र पिन्वध्वम् । प्रकर्षेण तर्पयत । आ पृणध्वम् । ताः सर्वतः पूरयत च । शीभं शीघ्रं यात । गच्छत च ॥ अतारिषुः । तॄ प्लवनतरणयोरित्यस्य लुङे सिचि वृद्धिः परस्मैपदेष्विति वृद्धिः । अडागमस्वरः । गव्यवः । सुपः क्यच् । क्याच्छन्दसीत्युप्रत्ययः । तस्य स्वरः । अभक्त । भज सेवायामित्यस्य लुङे सिचो झलो झलीति लोपः । सादादित्वादनिघातः । पिन्वध्वम् । पिविसेचन इत्यस्य लोटि रूपम् । निघातः । इषयन्तीः । इषं कुर्वत्यः । तत्करोतीति णिच् । णाविष्ठवत्प्रातिपदिकस्येतीष्थवद्भावाट्टेरिति टिलोपः । वा छन्दसीति सवर्णदीर्घः । प्रत्ययस्वरः । पृणध्वम् । पृण प्रीणने । लोटि रूपम् । व्य्व्त्ययेनात्मनेपदम् । व्याक्यभेदादनिघातः । यात । या प्रापण इत्यस्य लोटि रूपम् । आत्रापि न निघातः । शीभम् । शीघृ कत्थने । श्लाघ्यतेऽनेन तद्वानिति करणे घञ् । ञित्स्वरः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४