मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३५, ऋक् ५

संहिता

मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ।
अ॒त्याया॑हि॒ शश्व॑तो व॒यं तेऽरं॑ सु॒तेभि॑ः कृणवाम॒ सोमै॑ः ॥

पदपाठः

मा । ते॒ । हरी॒ इति॑ । वृष॑णा । वी॒तऽपृ॑ष्ठा । नि । री॒र॒म॒न् । यज॑मानासः । अ॒न्ये ।
अ॒ति॒ऽआया॑हि । शश्व॑तः । व॒यम् । ते॒ । अर॑म् । सु॒तेभिः॑ । कृ॒ण॒वा॒म॒ । सोमैः॑ ॥

सायणभाष्यम्

हे इन्द्र वृषणा कामानां सेचकौ वीतपृष्ठा कमनीयपृष्ठभागौ ते तव हरी अन्ये अस्मदन्ये यजमानासो यजमाना मा नि रीरमन् । मा हर्षयन् । वयं तु सुतेभिरभिषुतैः सोमैस्ते तवारं पर्याप्तं कृणवाम । यथा तव तृप्तिर्भवति तथा कुर्म इत्यर्थः । त्वं तु अत्यायाहि शश्वतः । बहूनन्यानतिक्रम्य सोमपानार्थं शीघर्मागच्छ । वितपृष्ठा । वी कान्त्यादिषु । अस्मात्त्कप्रत्ययः । बहुव्रीहौ पूर्वपद प्रकृतिस्वरः । रीरमन् । रमु क्रीडायामित्यस्य ण्यन्तस्य लुङि चङि रूपम् । न माङ्योग इत्यडभावः । निघातः । अत्यायाहि । यातेर्लोटि रूपम् । गतिर्गताविति पूर्वस्य निघातः । कृणवाम । कृणोतेर्लोटि रूपम् । निघातः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७