मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३५, ऋक् ६

संहिता

तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ्छ॑श्वत्त॒मं सु॒मना॑ अ॒स्य पा॑हि ।
अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ॥

पदपाठः

तव॑ । अ॒यम् । सोमः॑ । त्वम् । आ । इ॒हि॒ । अ॒र्वाङ् । श॒श्व॒त्ऽत॒मम् । सु॒ऽमनाः॑ । अ॒स्य । पा॒हि॒ ।
अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । आ । नि॒ऽसद्य॑ । द॒धि॒ष्व । इ॒मम् । ज॒ठरे॑ । इन्दु॑म् । इ॒न्द्र॒ ॥

सायणभाष्यम्

तवायं सोम इति माध्यन्दिने सवने नेष्टुः प्रस्थितयाज्या । सूत्रितं च । तवायं सोमस्त्वमेह्यर्वाङिन्द्राय सोमाः प्रदिवः । आ. ५-५ । इति ॥

हे इन्द्र अयं सोमस्तव त्वदर्थमभिषुतः । त्वमर्वाङ् सोमाभिमुख्येनैहि । आयाहि । आगत्य च सुमानाः शोभनमनस्को भूत्वा शश्वत्तमं भूयांसमस्येमं सोमः पाहि । पिब । बर्हिषि प्रवृद्धेऽस्मिन्यज्ञे निशद्योपविश्येन्दुं क्लेदनशीलमिमिं सोमं जठर आ दधिष्व । धारय । यथा नाभेरधस्तान्न गच्छति तथा धारय । अङ्गिरोभिरागहि यज्ञियेभिः । ऋग्वे. १०-१४-५ । इत्यत्र न यज्ञविशेशणं बर्हिर्भिन्नरूपं वा तदित्यतो नोत्सृह्यते । इहि इण् गतौ । अस्य लोटि रूपम् । निघातः । शश्वतमम् । उंछादित्वादन्तोदात्तत्वम् । पाहि । पा पान इत्यस्य लोटि रूपम् । बहुलं छन्दसीति शपो लुक् । निघातः । निषद्य । सदेर्ल्यपि सदेरप्रतेरिति षत्वम् । लित्स्वर्तः । दधिश्व । इन्दुम् । उन्दी क्लेदने । उन्भेरिच्चादेरित्युप्रत्ययः । धातोरादेरिकारादेशः । निदित्यनुवृत्तेराद्युदात्तः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८