पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इन्द्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे ।
यथापि॑बः पू॒र्व्याँ इ॑न्द्र॒ सोमाँ॑ ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ॥
पिब॑ । वर्ध॑स्व । तव॑ । घ॒ । सु॒तासः॑ । इन्द्र॑ । सोमा॑सः । प्र॒थ॒माः । उ॒त । इ॒मे ।
यथा॑ । अपि॑बः । पू॒र्व्यान् । इ॒न्द्र॒ । सोमा॑न् । ए॒व । पा॒हि॒ । पन्यः॑ । अ॒द्य । नवी॑यान् ॥
माध्यन्दिने सवनेऽच्छावाकशस्त्रे यज्या पिबा वर्धस्वेत्येषा । सूत्रितं च । पिबा वर्धस्व तव घा सुतास इति याज्या । आ. ५-१६ । इति ॥
हे इन्द्र इमं सोमं पिब । ततो वर्धस्व । शरीरेण पुष्टो भव । त्वदर्धं प्रथमाः पुरातना उत अपि चेमेऽभिनवा उभयविधाः सोमाः सुतासो घ । ग्रावभिरभिषुताः खलु । हे इन्द्र पूर्व्यान्पुरतनान्सोमान्यथा त्वमपिब एवैवमध्याधुना पन्यः स्तुत्योऽत एव नवीयानतिशयेनाभिनवस्त्वमिमानभिनवान्सोमान्पाहि । पिब ॥ पिब । पातेर्लोटि रूपम् । वर्धस्व । तिङ उत्तरत्वान्निघाताभावः । अपिबः । यथायोगादनिघातः । पाहि । पातेर्लोटि बहुलं छनसीति शपो लुक् । निघातः । पन्यः । पनतेः स्तुत्यर्थस्याघ्न्यादित्वाद्यत् । यस्योऽनाव इत्याद्युदात्तत्वम् । नवीयान् । नवशब्दादीयसुनि रूपम् । नित्स्वरः ॥ ३ ॥