मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३७, ऋक् २

संहिता

अ॒र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षु॑ः शतक्रतो ।
इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑ ॥

पदपाठः

अ॒र्वा॒चीन॑म् । सु । ते॒ । मनः॑ । उ॒त । चक्षुः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
इन्द्र॑ । कृ॒ण्वन्तु॑ । वा॒घतः॑ ॥

सायणभाष्यम्

हे शतक्रतो । शतं क्रतवो यस्यासौ शतक्रतुः । हे इन्द्र वाघतः । वहन्ति यज्ञयां धुरमिति वाघतः स्तोतारः । ते तव सु अस्मदभिमतफलसंपादनेन शोभनं मनोऽर्वाचीनमस्मदभिमुखं क्रुण्वन्तु । कुर्वन्तु । उत आपि च चक्शुस्त्वदीयं दर्शनमस्मास्वनुग्रहदृष्टिं कुर्वन्तु । अर्वाचीनम् । विभाषांचेरदिक् स्त्रियामिति खप्रत्ययः । खस्येनादेशः । चक्षुः । चक्षेः शिच्चेत्युसिप्रत्ययः । शिद्वद्भावात् ख्याञादेशाभावः । निदित्यनुवृत्तेराद्युदात्तः । कृण्वन्तु । कृवि हिंसाकरणयोरित्यस्य लोटि रूपम् । आमन्त्रितस्याविद्यमानवत्त्वेन पादादित्वादनिघातः । प्रत्ययस्वरः । वाघतः । वह प्रापणे । संश्चद्वेहदित्यादिना अतिप्रत्ययान्तत्वेन निपातनादुपधावृद्धिः । हकारस्य घत्वम् । प्रत्ययस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१