मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३७, ऋक् १०

संहिता

अग॑न्निन्द्र॒ श्रवो॑ बृ॒हद्द्यु॒म्नं द॑धिष्व दु॒ष्टर॑म् ।
उत्ते॒ शुष्मं॑ तिरामसि ॥

पदपाठः

अग॑न् । इ॒न्द्र॒ । श्रवः॑ । बृ॒हत् । द्यु॒म्नम् । द॒धि॒ष्व॒ । दु॒स्तर॑म् ।
उत् । ते॒ । शुष्म॑म् । ति॒रा॒म॒सि॒ ॥

सायणभाष्यम्

हे इन्द्र बृहन्महत् श्रवः सोमल्स्क्शणमस्माभिर्दीयमानमन्नमगन् । त्वां गच्छतु । त्वं दुष्टरं दुस्तरं शत्रुभिस्तरीतुमशक्यं द्युम्नं धनं दधष्व । अस्मभ्यं प्रयच्छ । वयं तु ते त्वदीयं शुष्मं बलमुत्कृष्टं तिरामसि । सोमाज्यादिभिर्धयामः । आगन् । गमेर्लङि बहुलं छन्दसीति शपो लुक् । हल्ज्यादिना तिलोपः । मो नो धातोः । अडागमस्वरः । दधिष्व । दधातेर्लोटि छन्दस्यभयथेति धास आर्धधातुकत्वादिडागमः । निघातः । दुस्तरं तरतेः कृच्छ्रार्थे खल् । सुषामादित्वात्संहितायां शत्वम् । लित्स्वरः । तिरामसि । इदन्तो मसिः । निघातः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२