मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३७, ऋक् ११

संहिता

अ॒र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑ ।
उ॒ लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ॥

पदपाठः

अ॒र्वा॒ऽवतः॑ । नः॒ । आ । ग॒हि॒ । अथो॒ इति॑ । श॒क्र॒ । प॒रा॒ऽवतः॑ ।
ऊं॒ इति॑ । लो॒कः । यः । ते॒ । अ॒द्रि॒ऽवः॒ । इन्द्र॑ । इ॒ह । ततः॑ । आ । ग॒हि॒ ॥

सायणभाष्यम्

शक्र बलवन्हे इन्द्र अर्वावतोऽर्वाचीनात्समीपाद्देशात् अथो आपि च परावतोऽतिदूराद्देशान्नोऽस्मानभिलक्ष्या गहि । आगच्छ । अद्रिवः । अत्ति भक्षयति शत्रूनित्यद्रिर्वज्रः । तद्वन् हे इन्द्र ते तव य उ लोक उत्तमो लोकोऽस्ति ततस्तस्मादपि लोकादिहास्मिन्देवयजने देशे सोमपानार्थामा गहि । आगच्छ । गहि । गमेर्लोटि रूपम् । परावतः । उपसर्गाच्छन्दसि धात्वर्थ इति वतिः । प्रत्ययस्वरः । अद्रिवः । मतुवसो रुरिति रुः । ततः । पञ्चम्यास्तसिलिति तसिल् । लित्स्वरः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२