मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३८, ऋक् १

संहिता

अ॒भि तष्टे॑व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा॑नः ।
अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा॑णि क॒वीँरि॑च्छामि सं॒दृशे॑ सुमे॒धाः ॥

पदपाठः

अ॒भि । तष्टा॑ऽइव । दी॒ध॒य॒ । म॒नी॒षाम् । अत्यः॑ । न । वा॒जी । सु॒ऽधुरः॑ । जिहा॑नः ।
अ॒भि । प्रि॒याणि॑ । मर्मृ॑शत् । परा॑णि । क॒वीन् । इ॒च्छा॒मि॒ । स॒म्ऽदृशे॑ । सु॒ऽमे॒धाः ॥

सायणभाष्यम्

यजमानः स्तोतारं प्रति ब्रूते । हे स्तोतर्मनीषामिन्द्रविषयां स्तुतिमभि दीधय । सर्वतो दीप्तां कुरु । तत्र दृष्टान्तः । तष्टेव । यथा तष्टा तक्षनेन काष्ठं सम्स्करोति तद्वत् । सुधुरः शोभनया धुरान्वितो वाजी वेगवानत्यो नाश्व इव जिहानः कर्मणि प्रवर्तमानः पराण्युत्तमानि प्रियाणीन्द्रस्य प्रियतमानि । यद्वा । पराण्युत्तरेष्वहंसु क्रियमाणानि कर्माण्यभिमर्मृशत् अत्यर्थमभि मृशन् सुमेधाः शोभनमेधावानहं कवीन् । ये पूर्वमनुष्ठितयज्ञाद्देवभूयमगमन् ते कवयः । तान् सन्दृशे सन्द्रष्टुमिच्छामि । उक्तार्थे ब्राह्मणम् । अभि तष्टेव दीधया मनीषामित्यच्छावाकोऽहरहः संसत्यभिवत्तत्यै रूपमभिप्रियाणि मर्मृशत्पराणीति यान्येव पराण्यहानि तानि प्रियाणि तान्येव तदभिमर्मृशतो यन्ताभ्यारभमानाः परो वा अस्माल्लोकात्स्वर्गो लोकस्तमेव तदभिवदति कवीरिच्छामि संदृशे सुमेधा इति ये वै ते न ऋषयः पुर्वे प्रेतास्ते वै कवयस्तानेव तदभ्यतिवदति । ऐ. ब्रा. ६-२१ । इति तष्टेव । तक्षू स्वक्षू तनूकरण इत्यस्य तृनि रूपम् । नित्स्वरः । दीधय । दीधीङ् दीप्तिदेवनयोरित्यस्यान्तर्भावितण्यर्थस्य लोटि शओप् बहुलं छन्दसीति लुगभावः । व्यत्ययेन परस्मै पदम् । सुधुरः । आद्युदात्तं द्व्यच्छन्दसीत्युत्तर पदाद्युदात्तत्वम् । जिहानः । ऒहाङ् गतावित्यस्य शानचि भृञामिदित्यभ्यासस्येत्वम् । चित्त्वादन्तोदात्तत्वे प्राप्तेऽभ्यस्तानामादिरित्याद्युदात्तत्वम् । अम् ्मृशत् । मृश आमर्शन इत्यस्य यङ् लुकि रुग्रिकौ च लुकीत्यभ्यासस्य रुगागमः । तदन्तच्छतरि रूपम् । नाभ्यस्ताच्छतुरिति नुमभावः । अभ्यस्तस्वरः । सन्दृशे । द्रुशिर् प्रेक्षण इत्यस्मात्तुमर्थे दृशे विख्ये चेति केन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तः । समासे कृदुत्तरपदस्वरः । सुमेधाः । नित्यमसिच् प्रजामेधयोरित्यसिच् प्रत्ययः । चित्स्वरः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३