मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३८, ऋक् ७

संहिता

तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः ।
अ॒न्यद॑न्यदसु॒र्यं१॒॑ वसा॑ना॒ नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ॥

पदपाठः

तत् । इत् । नु । अ॒स्य॒ । वृ॒ष॒भस्य॑ । धे॒नोः । आ । नाम॑ऽभिः । म॒मि॒रे॒ । सक्म्य॑म् । गोः ।
अ॒न्यत्ऽअ॑न्यत् । अ॒सु॒र्य॑म् । वसा॑नाः । नि । मा॒यिनः॑ । म॒मि॒रे॒ । रू॒पम् । अ॒स्मि॒न् ॥

सायणभाष्यम्

ये यजमाना वृषभस्याभिमतफलप्रदास्यास्येन्द्रस्यार्थं धेनोर्गोर्नामभिर्विश्वायुर्विश्वव्यचा इत्यादिभिरुपलक्शितां गां सक्म्यं सम्भजनार्हं तत्क्षीरादिकं हविर्नु क्षिप्रमाममिर आदुहन्ति । धातूनामनेकार्थत्वात् । तेन च हविषा यज्ञमनुष्थाय देवभूयं प्राप्तास्ते कम्व्योऽन्यदन्योन्नूतनमसुर्यमसुराणां बलं वसाना आच्छादयन्त आत एव मायिनो मायया स्वीकृतकामरूपाः । यद्वा मायिनः प्रज्ञावन्तः सन्तोऽस्मिन्निन्द्रे रूपं स्वं स्वं रूपं नि ममिरे । इयत्तया परिच्छिद्य निदधुः ॥ इत् पूरणम् । ममिरे । माङ् माने । लिटि रूपम् । निघातः । सक्म्यम् । युजिरुचितिजां कुश्चेत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात्सचतेर्मक्प्रत्ययः कुत्वं च । सचनं सक्मः । तत्र भव इत्यर्थे भवे छन्दसीति यत् । यतोऽनाव इत्याद्युदात्तः । गोः । एकादेशस्वरः । असुर्यम् । असुरस्य स्वमित्यर्थेऽसुरस्य स्वम् । पा. ४-४-१२३ । इति यत् । तित्स्वरितः । रूपम् । रूप रूपक्रियायाम् । ण्यन्तः । खष्पशिल्प शष्पवाष्परूपपर्पतल्पाः । उ. ३-२८ । इति पप्रत्ययान्तत्वेन निपातनात्पकारोलोपोऽगुणत्वं च । रूपयति रूप्यते वेति रूपम् । प्रत्ययस्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४