मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३९, ऋक् ५

संहिता

सखा॑ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् ।
स॒त्यं तदिन्द्रो॑ द॒शभि॒र्दश॑ग्वै॒ः सूर्यं॑ विवेद॒ तम॑सि क्षि॒यन्त॑म् ॥

पदपाठः

सखा॑ । ह॒ । यत्र॑ । सखि॑ऽभिः । नव॑ऽग्वैः । अ॒भि॒ऽज्ञु । आ । सत्व॑ऽभिः । गाः । अ॒नु॒ऽग्मन् ।
स॒त्यम् । तत् । इन्द्रः॑ । द॒शऽभिः॑ । दश॑ऽग्वैः । सूर्य॑म् । वि॒वे॒द॒ । तम॑सि । क्षि॒यन्त॑म् ॥

सायणभाष्यम्

दशपेये निष्केवल्ये निविद्धानीयस्य पुरस्तात्सखा ह यत्रेत्येषा । सुत्रितं च । सख्हा ह यत्र सख्हिभिर्नवग्व्येरिति निविद्धानीययोराद्ये । आ. ९-३ । इति ।

सखिभिः समानखानैः । सत्वभिरिन्द्रमभितः सीदद्भिर्नवग्वैः । मेधातिथिप्रभृतयोऽङ्गिरसः केचिन्नव मासान्सत्रमनुष्ठाय लब्धफला उदतिष्ठन् ते नवग्वाः । तैः सत्वभिरङ्गिरोभिः सखा समानाख्यान इन्द्रो यत्र यस्मिन्विले फणिभिर्निरुद्धा गा अभिलक्ष्याभिज्ञु अभिगतजानुकं यथा भवति तथानुग्मन् अनुगच्छन्निन्द्रस्तत्रत्र विले दशग्वैः । ये दश मासान्सत्रमनुष्ठाय लब्धफला उदतिष्ठन् ते दशग्वाः दशभिर्दशसंख्याकैरङिरोभिः सहितः सन् तमसि विलवर्तिन्यन्धकारे क्षियन्त निवसन्तं सत्यं यथार्थप्रकाशं सूर्यं विवेद । लेभे । ततो लब्धप्रकाशः स इन्द्रस्ता गा आनीयाङ्गिरोभ्यः प्रादादिति भावः । सखा । ख्या प्रकथने । समाने ख्यश्चोदात्त इतीण्प्रत्ययः । डिच्च । समानस्य छन्दसीति समानस्य सभावः । उदात्त इत्युक्तेन सामर्थ्यादुपपदस्येति गम्यते । आद्युदात्तः । नवग्वैः । गमेरौणादिको ड्वप्रत्ययः । बहुव्रीहौ पुर्वपदस्वरः । अभिज्ञु । प्रसंभ्यां जानुनोर्ज्ञुरिति विधीयमानो ज्ञुरभेरुत्तरस्य व्यत्ययेन भवति । सत्वभिः । षद्लृवितरणगत्यवसादनेष्वित्यस्मात्प्र ईरसद्योस्तुट् चेति क्वनिप्रत्ययः । तुडागमः । नित्त्वादाद्युदात्तः । अनुग्मन् । गमेः शतरि बहुलं छन्दसीति शओप् लुकि कृते गमहनेत्यादिनोपधालोपः । प्रादिसमासः । शतृस्वरः । विवेद । विद ज्ञान इत्यस्माल्लिटि णलि रूपम् । क्षियन्तम् । क्शिनिवासगत्योरित्यस्य शतरि रूपं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५