मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४०, ऋक् ७

संहिता

अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं॑ सचन्ते॒ अक्षि॑ता ।
पी॒त्वी सोम॑स्य वावृधे ॥

पदपाठः

अ॒भि । द्यु॒म्नानि॑ । व॒निनः॑ । इन्द्र॑म् । स॒च॒न्ते॒ । अक्षि॑ता ।
पी॒त्वी । सोम॑स्य । व॒वृ॒धे॒ ॥

सायणभाष्यम्

वनिनः । वनं देवताविषयं सम्भजनमस्यास्तीति वनी । तस्य देवान् सम्भजमानस्य यजमानस्य द्युम्नानि द्योतमानान्यक्शिता क्षयरहितानि सम्पूर्णानि सोमादीनि हवींषीन्द्रमभि अभितः सचन्ते । समवयन्ति । तेषु मध्ये सोमस्य पीत्वी सोमं पीत्वा वावृधे । स इन्द्रो वर्धते ॥ वनिनः । आत इनिठनावितीनिप्रत्ययः । तस्य स्वरः । सचन्ते । षच समवाय इत्यस्य लटि रूपम् । अक्शिता । क्शि क्शय इत्यस्य निष्ठा । अत्र ण्यदर्थ इति दीर्घाभावः । तस्मादेव क्षियो दीर्घादिति निष्ठानत्माभावः । नञा समासे तस्य स्वरः । पीत्वी । पा पान इत्यस्मात् क्त्वाप्रत्ययस्य स्नात्व्यादयश्चेति निपातनात् त्वी इत्यादेशः । प्रत्ययस्वरः । घुमास्थागापेत्यादिना ईत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः