मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४०, ऋक् ८

संहिता

अ॒र्वा॒वतो॑ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् ।
इ॒मा जु॑षस्व नो॒ गिरः॑ ॥

पदपाठः

अ॒र्वा॒ऽवतः॑ । नः॒ । आ । ग॒हि॒ । प॒रा॒ऽवतः॑ । च॒ । वृ॒त्र॒ऽह॒न् ।
इ॒माः । जु॒ष॒स्व॒ । नः॒ । गिरः॑ ॥

सायणभाष्यम्

हे वृत्रहन्निन्द्र अर्वावतोऽर्वाचीनात्समीपाद्धेशात्परावतोऽतिदूराद्देशाद्वा नोऽस्मानभिलक्ष्या गहि । आगच्छ । आगत्य च नोऽस्मदीया इमाः स्तुतिलक्शणा गिरो वाचो जुषस्व । सेवस्य । पारवतः । उपसर्गाच्छन्दसि धात्वर्थ इति वतिः । प्रत्ययस्वरः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः