मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४१, ऋक् ९

संहिता

अ॒र्वाञ्चं॑ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना॑ ।
घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ॥

पदपाठः

अ॒र्वाञ्च॑म् । त्वा॒ । सु॒ऽखे । रथे॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ।
घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ब॒र्हिः । आ॒ऽसदे॑ ॥

सायणभाष्यम्

हे इन्द्र घृतस्नू श्रमजनितजलप्रस्रवणयुक्तौ केशिना केशिनौ स्कन्धप्रदेशे लम्बमानकेशयुक्तौ हरी आसद आसदनीयं बर्हिरभिलक्ष्य सुखे सुखकरे रथेऽर्वाञ्च मस्मदभिमुखं त्वां त्वां वहताम् । अर्वाञ्चम् । अञ्चतेः क्विनुगिदचामिति नुम् । वहताम् । वहेर्लोटि रूपम् । तसो लसार्वधातुकस्वरे कृते धातुस्वरः । आसदे । सदेः कृत्यार्थे केन्प्रत्ययः । नित्स्वरः । कृदुत्तरपदप्रकृतिस्वरः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः