मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४४, ऋक् १

संहिता

अ॒यं ते॑ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः ।
जु॒षा॒ण इ॑न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ॑म् ॥

पदपाठः

अ॒यम् । ते॒ । अ॒स्तु॒ । ह॒र्य॒तः । सोमः॑ । आ । हरि॑ऽभिः । सु॒तः ।
जु॒षा॒णः । इ॒न्द्र॒ । हरि॑ऽभिः । नः॒ । आ । ग॒हि॒ । आ । ति॒ष्ठ॒ । हरि॑तम् । रथ॑म् ॥

सायणभाष्यम्

हे इन्द्र हरिभिः । हरन्ति सोमरसानेभिरिति हरयो ग्रावाणः । तैरा सुतः सर्वतोऽभिषुतो हर्यतः कमनीयो जषाणः प्रीतिविषयोऽयं सोमस्ते तुभ्यमस्तु । त्वं हरिभिरश्वैर्युक्तं हरितं हरिद्वर्णं रथमा तिष्ठ । अधितिष्ठ । ततोनोऽस्मानभिलक्ष्या गहि । आगच्छ । हर्यतः । हर्य गतिकान्त्योरित्यस्माद्भृमृदृशीत्यादिनातच् प्रत्ययः । चित्त्वादन्तोदात्तः । यरितं हृञ् हरणे । हृश्याभ्यामितन् । उ. ३-९३ । इतितन्प्रत्ययः । नित्त्वादाद्युदात्तः । रथम् । रमु क्रीडायाम् । हनि कुषिनीत्यादिना क्थन्प्रत्ययः । कित्त्वादनुनासिकलोपः । नित्स्वरः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः