मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४४, ऋक् २

संहिता

ह॒र्यन्नु॒षस॑मर्चय॒ः सूर्यं॑ ह॒र्यन्न॑रोचयः ।
वि॒द्वाँश्चि॑कि॒त्वान्ह॑र्यश्व वर्धस॒ इन्द्र॒ विश्वा॑ अ॒भि श्रियः॑ ॥

पदपाठः

ह॒र्यन् । उ॒षस॑म् । अ॒र्च॒यः॒ । सूर्य॑म् । ह॒र्यन् । अ॒रो॒च॒यः॒ ।
वि॒द्वान् । चि॒कि॒त्वान् । ह॒रि॒ऽअ॒श्व॒ । व॒र्ध॒से॒ । इन्द्र॑ । विश्वा॑ । अ॒भि । श्रियः॑ ॥

सायणभाष्यम्

हे इन्द्र हर्यन् सोमं कामयमानस्त्वमुशसमुषःकालमर्चयः । पूजयसि । तथा यर्यन्नुदिते सूर्ये सोमं कामयमानस्त्वं सूर्यमरोचयः । दीपयसि । हे हर्यश्वेन्द्र विद्वानेतत्सर्वं जानानश्चिकित्वानस्मदभिलषितफलविषयज्ञानवांस्त्वं विश्वाः सर्वाः श्रियो नः सम्पदोऽभि वर्धसे । अभिमतफलप्रदानेनाभितो वर्धयसि । चिकित्वान् । कित ज्ञान इत्यस्य क्वसौ रूपम् । प्रत्ययस्वरः । वर्धसे । वृध वर्धन इत्यस्यान्तर्भावितण्यर्थस्य लटि रूपम् । निघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः