मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४७, ऋक् ३

संहिता

उ॒त ऋ॒तुभि॑रृतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभि॒ः सखि॑भिः सु॒तं नः॑ ।
याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ॥

पदपाठः

उ॒त । ऋ॒तुऽभिः॑ । ऋ॒तु॒ऽपाः॒ । पा॒हि॒ । सोम॑म् । इन्द्र॑ । दे॒वेभिः॑ । सखि॑ऽभिः । सु॒तम् । नः॒ ।
यान् । आ । अभ॑जः । म॒रुतः॑ । ये । त्वा॒ । अनु॑ । अह॑न् । वृ॒त्रम् । अद॑धुः । तुभ्य॑म् । ओजः॑ ॥

सायणभाष्यम्

मरुत्वतीयशस्त्रे याज्या ये त्वाहितत्य इत्येषा । सुत्रितं च । ये त्वाहिहत्ये मघवन्निवर्धन्निति याज्या । आ. ५-१४ ॥ इति ॥

हे मघवन्निन्द्र ये मरुतोऽहिहत्ये व्रुत्रहननरूपे कर्मणि त्वा त्वामवर्धन् प्रहर भगवो जहि वीरयस्वेति बलदानेनावीवृधन् । हे हरिवोऽश्ववन्निन्द्र ये च शाम्बरे शंबरववधसंबन्धिनि युद्धे त्वामवीवृधन् । इन्द्रः शम्बरमवधीदित्यस्मिन्नर्थे मन्त्रवर्णः । यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् । ओजायमानं यो अहिं जघान । ऋग्वे. २-१२-११ । इति । तथा ये मरुतो गविष्टौ पणिनामकैसुरैः सह गवार्थे युद्धे च त्वामविवृधन् । विप्रा मेधाविनो ये च मरुतो नूनमिदानीं त्वामनुमदन्तोइ मादयन्ति तादृशैस्तैर्मरुद्भिः सगणः सन् इमं सोमं पिब । अहिहत्ये । हन्तेर्भावे हनस्त चेति क्यप् । कृदुत्तरपदस्वरः । अवर्धन् । व्रुधु वृद्धावित्यस्य ण्यन्तस्य लङि रूपम् । चन्दस्युभयथेति झेरार्धधातुकत्वाणेर्लोपः । यद्वृत्तयोगादनिघातः । शाम्बरे । शम्बरस्येदमित्यर्थे तस्येदमित्यण्प्रत्ययः । गविष्टौ । इषु इच्छायाम् । भावे क्तिन् । बहुव्रीहौ पूर्वपदस्वरः । अनुमदन्ति । मदि स्तुत्यादिष्वित्यस्य लटि व्यत्ययेन परस्मैपदम् । आगमानुशासनस्यानित्यत्वान्नुमभवः । झेर्लसार्वधातुकस्वरे कृते धातुस्वरः । तिङिचोदात्तवतीति गतेर्निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११