मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४८, ऋक् ४

संहिता

उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।
त्वष्टा॑र॒मिन्द्रो॑ ज॒नुषा॑भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ॥

पदपाठः

उ॒ग्रः । तु॒रा॒षाट् । अ॒भिभू॑तिऽओजाः । य॒था॒ऽव॒शम् । त॒न्व॑म् । च॒क्रे॒ । ए॒षः ।
त्वष्टा॑रम् । इन्द्रः॑ । ज॒नुषा॑ । अ॒भि॒ऽभूय॑ । आ॒ऽमुष्य॑ । सोम॑म् । अ॒पि॒ब॒त् । च॒मूषु॑ ॥

सायणभाष्यम्

य एष इन्द्र उग्रः शत्रूणां भयङ्करस्तुराषाट् त्वरया शत्रूणामभिभविता अत एवाभिभूत्योजाः शत्रूणामभिभवनपराक्रमोपेतः सन् तन्वमात्मीयं शरीरं यथावशं यथाकामं नानाविधरूपोपेतं चक्रे । तथा च मन्त्रवर्णः । रूपं रूपं मघवा बोभवीति । ऋग्वे. ३-५३-८ । इति स इन्द्रो जनुषा जन्मना सामर्थ्येन त्वष्टारं त्वष्टृनामकमसुरमभिभूय चमूषु चमसेषु स्थितमामुष्य चोरयित्वा सोममपिबत् । त्वष्टा हतपुत्रो वीन्द्रमित्यादि प्रासहा सोममपिबत् । तै. सं. २-४-१२ । इति तैत्तिरीयकम् । तुराषाट् । ञित्वरा सम्भ्रमे । क्विप् । ज्वरत्वरेत्यादिना ऊट् । सहेश्चन्दसि सह इति ण्विः । कर्तृकरणे कृता बहुलमिति समासः । तत्पुरुषे कृति बहुलमिति तृतीयाया अलुक् । सहेः साडः स इति षत्वम् । कृदुत्तरपदस्वरः । यथावशम् । वशं काममनतिक्रम्येत्यव्ययीभावसमासः । समासस्वरः । आमुष्य । मुशस्तेये । ल्यप् । चमूशु । चमु अदने । कृषिचमितनिधनिसर्जिखर्जिभ्य ऊरित्यूप्रत्ययः । प्रत्ययस्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२