मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५१, ऋक् ३

संहिता

आ॒क॒रे वसो॑र्जरि॒ता प॑नस्यतेऽने॒हस॒ः स्तुभ॒ इन्द्रो॑ दुवस्यति ।
वि॒वस्व॑त॒ः सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं॑ स्तुहि ॥

पदपाठः

आ॒ऽक॒रे । वसोः॑ । ज॒रि॒ता । प॒न॒स्य॒ते॒ । अ॒ने॒हसः॑ । स्तुभः॑ । इन्द्रः॑ । दु॒व॒स्य॒ति॒ ।
वि॒वस्व॑तः । सद॑ने । आ । हि । पि॒प्रि॒ये । स॒त्रा॒ऽसह॑म् । अ॒भि॒मा॒ति॒ऽहन॑म् । स्तु॒हि॒ ॥

सायणभाष्यम्

जरिता शतूर्णं जरयितेन्द्र आकरे । आकीर्यते यद्वार्थं धनमत्रेत्याकरो युद्धम् । तस्मिन्वसोर्धनस्य स्थानभूते युद्धे पनस्यते । सर्वैः स्तूयुते । तद्वा वसोः । वसत्याभिमुख्येन तिष्थतीति वसुः शत्रुस्तस्य जरयितेति योजनीयम् । स इन्द्रोऽनेहसोऽपापाः स्तुभः स्तुतीर्दुवस्यति । परिचरति । तासां फलं प्रयच्छन् पूजयतीत्यर्थः । किञ्च स इन्द्रो विवस्वतो विशेषाणाग्निहोत्रार्थं वसतो हविष्मतो वा यजमानस्य सदने गृह आ पिप्रिये हि । सोमपानादिनात्यन्तं प्रीतो भवति खलु । सत्रासाहं शत्रूणामेव हन्तारं यद्वा मरुद्भिः सह शत्रूणामभिभवितारम् अत एवाभिमातिहनं शत्रूणां हन्तारमिन्द्रं स्तुहि । हे विश्वामित्रेति । आकरे कॄ विक्षेपे । अधिकरण ऋदोरबित्यप् । थाथादिस्वरेणान्तोदात्तः । जरिता । जॄष् वयोहानावित्यस्यान्तर्भावितण्यर्थस्य तृचि रूपम् । चित्त्वादन्तोदात्तः । पनस्यते । पनस्यतिः स्तुतिकर्मा । तस्य कर्मणि लटि रूपम् । निघातः । अनेहसः । हन्तेर्नञ्यु पपदे नञि हन एह चेत्यसिप्रत्यय एह इत्ययं चादेशो धातोः । नञ् सुभ्यामिति स्वरेणान्तोदात्तः । स्तुभः । स्तोभतिरर्चतिकर्मा । क्विप् । दुवस्यति । दुवः परिचरणमात्मन इच्छतीत्यर्थे क्यच् । निघातः । पिप्रिये । प्रीङ् तर्पणी । लिटि रूपम् । हियोगादनिघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५