मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५२, ऋक् १

संहिता

धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् ।
इन्द्र॑ प्रा॒तर्जु॑षस्व नः ॥

पदपाठः

धा॒नाऽव॑न्तम् । क॒र॒म्भिण॑म् । अ॒पू॒पऽव॑न्तम् । उ॒क्थिन॑म् ।
इन्द्र॑ । प्रा॒तः । जु॒ष॒स्व॒ । नः॒ ॥

सायणभाष्यम्

हे इन्द्र धानावन्तम् । धान भृष्टयवाः । तद्वन्तः करम्भिणम् । करम्भो दधिमिश्राः सक्तवः । तद्वन्तमपूपवन्तं सवनियपुराडाशोपेतमुक्थिनं शस्त्रिनं नोऽस्मदीयमिमं सोमं प्रातः प्रातःसवने जुषस्व । प्रातः । स्वरादिष्वन्तोदात्तत्वेन पठितत्वादन्तोदात्तः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७