मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् १७

संहिता

स्थि॒रौ गावौ॑ भवतां वी॒ळुरक्षो॒ मेषा वि व॑र्हि॒ मा यु॒गं वि शा॑रि ।
इन्द्र॑ः पात॒ल्ये॑ ददतां॒ शरी॑तो॒ररि॑ष्टनेमे अ॒भि नः॑ सचस्व ॥

पदपाठः

स्थि॒रौ । गावौ॑ । भ॒व॒ता॒म् । वी॒ळुः । अक्षः॑ । मा । ई॒षा । वि । व॒र्हि॒ । मा । यु॒गम् । वि । शा॒रि॒ ।
इन्द्रः॑ । पा॒त॒ल्ये॒३॒॑ इति॑ । द॒द॒ता॒म् । शरी॑तोः । अरि॑ष्टऽनेमे । अ॒भि । नः॒ । स॒च॒स्व॒ ॥

सायणभाष्यम्

राज्ञः सुदासो यज्ञेऽवभृथं कृत्वा यज्ञशालातो निर्गन्तुमिच्छन् रथेऽश्वादिकं युञ्चानो विश्वामित्रो रथाङ्गानि स्तौति । गावौ । गच्छत इति गवावश्वौ । स्थिरौ भवताम् । अक्षश्च वीळुर्दृढो भवतु । ईषा दण्डश्च मा वि वर्हि । व्यृद्धो मा भवतु । युगं चा मा वि शरि । विशीर्णं मा भवतु । इन्द्रः पातल्ये पतनशीले कीलके शरीतोर्विशरणात्प्राक् ददताम् । धारयतु । हे अरिष्टनिमे आहिंसितप्रधिविशिष्ट हे रथ नोऽस्मानभि आभिमुख्येन सचस्व । सङ्गतो भव । वि वर्हि । वृहि वृद्धौ । विपूर्वो वृहिर्विनाशे वर्तते । अस्मात्कर्मकर्तरि लुङि चिण् भावकर्मणोरिति चिण् । चिणो लुगिति त प्रत्ययस्य लुक् । निघातः । युगम् । युगशब्द उंछादिषु रथाद्युपकरणेऽर्थे घञन्तत्वेन नोपातनादगणत्वम् । तत्र पाठादन्तोदात्तत्वम् । शरि । शॄ हिंसायामित्यस्य लुङि रूपम् । अरिष्टनेमे । पादादित्वात् षाष्थिकमाद्युदात्तत्वं ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२