मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् २०

संहिता

अ॒यम॒स्मान्वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् ।
स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच॑नात् ॥

पदपाठः

अ॒यम् । अ॒स्मान् । वन॒स्पतिः॑ । मा । च॒ । हाः । मा । च॒ । रि॒रि॒ष॒त् ।
स्व॒स्ति । आ । गृ॒हेभ्यः॑ । आ । अ॒व॒सै । आ । वि॒ऽमोच॑नात् ॥

सायणभाष्यम्

यजमान आत्मनः श्रेय आशास्ते । वनस्पतिर्वनस्पतिनिर्मितोऽयं रथो रथारूढानस्मान् मा च हाः । मात्याक्षीत् । किञ्च मा रीरिषत् । अस्मान् माविनाशयतु । किञ्चा गृहेभ्यः । यावद्गृहान् प्राप्नुयाम तावदस्मभ्यं स्वस्ति भवतु । तथावसै । पञ्च्म्यर्थे चतुर्थी । यावद्रथवेगावसानं तावत् । आ विमोचनात् । यावद्रथयोजिताश्वविमोचनं तावत् स्वस्ति भवतु । हाः । ओहाक् त्यागे । लुङि मन्त्रे घसेत्यादिना सिचो लुक् । पुरुषव्यत्ययः । चवायोगे प्रथमेति न निघातः । रीरिषत् । रिष हिंसायामित्यस्य ण्यन्तस्य लुङि चङि रूपम् । द्वितीयत्वान्निघातः । गृहेभ्यः । ग्रहेर्गेहे क इति कः । पञ्चम्यपाङ् परिभिरिति पञ्च्मी । अवस्यै । षोऽन्तकर्मणि । क्विप् । चतुर्थ्येकवचन आतो लोपाभावश्छान्दसः । वृद्धिः । एकादेशस्वरः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२