मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् ४

संहिता

स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये॑ श॒यासु॒ प्रयु॑तो॒ वनानु॑ ।
अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

स॒मा॒नः । राजा॑ । विऽभृ॑तः । पु॒रु॒ऽत्रा । शये॑ । श॒यासु॑ । प्रऽयु॑तः । वना॑ । अनु॑ ।
अ॒न्या । व॒त्सम् । भर॑ति । क्षेति॑ । मा॒ता । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

समानः साधारणः सर्वेषाम् । यद्वा एक एव राजा दीप्यमानोऽग्निः पुरुत्रा बहुषु देशेषु विभृतोऽग्निहोत्रार्थं विहृतो भवति । यद्वा । राजाभिषुतः सोमः सर्वेषु देशेषु यज्ञार्थं विहृतो भवति । स चाग्निः सोमो वा शयासु शेरते हविरादयः पदार्था अत्रेति शया वेद्यः । तासु शये । शेते । निवसति । वनानु अनुवनं वनेष्वरणिरूपेशु काष्ठेषु प्रयुतो विभक्तोऽग्निर्वर्तते । सोमश्चेध्वनेषु चमसेषु विभक्तो वर्तते । तस्य द्वे मातरौ द्यावापृथिव्यौ । तयोरन्या द्यौरस्या भूमेर्जायमानतया वत्सं वत्सभुतमग्निं सोमं वा भरति । वृष्ट्यादिरूपेण भरति । पोषयति । माता वसुधा क्षेति । केवलं निवासयति । विभृतः । हृञ् हरणे । कर्मणि क्तः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । पुरुत्रा । अधिकरणेत्राप्रत्ययः । शये । शीङ् स्वप्ने । लोपस्त इति तकारलोपः । शीङः सार्वधातुके गुनः । शयासु । शीऒञ् स्वप्ने । विरजित्यधिकरणेऽच् । भरति । भृञ् भरने । भूवादिः । एकान्याभ्यां समर्थाभ्यामिति पुर्वस्य न निघातः । क्षेति । क्षि निवासगत्योरित्यस्य लटि बहुलं छन्दसीति विकरणस्य लुक् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८