मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् ५

संहिता

आ॒क्षित्पूर्वा॒स्वप॑रा अनू॒रुत्स॒द्यो जा॒तासु॒ तरु॑णीष्व॒न्तः ।
अ॒न्तर्व॑तीः सुवते॒ अप्र॑वीता म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

आ॒ऽक्षित् । पूर्वा॑सु । अप॑राः । अ॒नू॒रुत् । स॒द्यः । जा॒तासु॑ । तरु॑णीषु । अ॒न्तरिति॑ ।
अ॒न्तःऽव॑तीः । सु॒व॒ते॒ । अप्र॑ऽवीताः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

पूर्वासु जीर्णास्वोषधीष्वाक्षिदावर्तमानस्तथापरा नव्या ओषधीरनुरुदनुरुन्धन् र्त्पत्त्यानुगुण्येनानुतिष्ठन्नग्निः सूर्यो वा सद्यो जातासु तदानीमुत्पन्नासु तरुणीषु पल्लवितास्वोषधीष्वन्तर्वर्तते । ता ओषधयोऽप्रविताः केनापि पुरुषेणानिषिक्तरेतस्का अनभ्यक्ता वा अन्तर्वर्ततीरग्निना गर्भवत्यो भुत्वा सुवते । फलं पुष्पं चोत्पादयन्ति । तदिदं देवानामैश्वर्यं ॥ अक्षित् । क्षिनिवासगत्योः । क्विप् । अनूरुत् । अनौ रुध कामे । अस्मात् क्विप् । अन्येषामपि दृश्यत इति दीर्घः । कृत्स्वरः । तरुणीषु । नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम् । म. ४-१-१५-६ । इति ङीप् । अन्तर्वतीः । झय इति मतुपो षत्वम् । सुवते । षूङ् प्राणिगर्भविमोचन इत्यस्य लटि रूपम् । निघातः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८