मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् १३

संहिता

अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ ।
ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

अ॒न्यस्याः॑ । व॒त्सम् । रि॒ह॒ती । मि॒मा॒य॒ । कया॑ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः॑ ।
ऋ॒तस्य॑ । सा । पय॑सा । अ॒पि॒न्व॒त॒ । इळा॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

अन्यस्याः पृथिव्या वत्समग्निं रिहत्युदकधारारूपया जिह्वया लिहती द्यौर्मिमाय । मेघद्वारा ध्वनिं करोति । धेनुः प्रीणयित्री सा द्यौः कया जलवर्जिता भुवा तत्रत्यं जलमादाय स्वकीयमूधो मेघरूपं नि दधे । उदकेन निहितमकरोत् । सा जलवर्जितेळा पृथिव्यृतस्य सत्यभूतस्यादित्यस्य पयसोदकेनापिन्वत । वर्षकाले सिक्ता भवति । आदित्याज्जायते वृष्टिः । मनु? ३-७६ । इति स्मृतेः । रिहती । लिह आस्वादन इत्यस्य शतरि रूपम् । शतुरनुम इति ङीप उदात्तत्वम् । अपिन्वत । पिवि सेचने । मुचादिरात्मनेपदी । निघातः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०