मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५८, ऋक् ७

संहिता

अश्वि॑ना वा॒युना॑ यु॒वं सु॑दक्षा नि॒युद्भि॑ष्च स॒जोष॑सा युवाना ।
नास॑त्या ति॒रोअ॑ह्न्यं जुषा॒णा सोमं॑ पिबतम॒स्रिधा॑ सुदानू ॥

पदपाठः

अश्वि॑ना । वा॒युना॑ । यु॒वम् । सु॒ऽद॒क्षा॒ । नि॒युत्ऽभिः॑ । च॒ । स॒ऽजोष॑सा । यु॒वा॒ना॒ ।
नास॑त्या । ति॒रःऽअ॑ह्न्यम् । जु॒षा॒णा । सोम॑म् । पि॒ब॒त॒म् । अ॒स्रिधा॑ । सु॒दा॒नू॒ इति॑ सुऽदानू ॥

सायणभाष्यम्

सुदक्षा शोभनसामर्थ्योपेतौ युवाना नित्यतरुणौ नासत्या । न विद्यतेऽसत्यं युयोस्तौ । सुदानू शोभनफलस्य दातारौ हे अश्विनौ वायुना नियुद्भिरश्वैश्च सजोषसा सङ्गतौ जुषाणा सोमविषयप्रीतियुक्तावस्रिधानुपक्षीणौ युवं युवां तिरोअह्न्यमह्नि तिरोहिते हूयमानमिमं सोमं पिबतम् । नियुद्भिः । यौतेः क्विप् । तिरो अह्न्यम् । अह्नि भवमह्न्यम् । भवे छन्दसीति यत् । तिरो भूतमह्न्यं यस्मिन्काले स तिरो अह्न्यः । पूर्वपदप्रकृतिस्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः