मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५८, ऋक् ८

संहिता

अश्वि॑ना॒ परि॑ वा॒मिषः॑ पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒ अमृ॑ध्राः ।
रथो॑ ह वामृत॒जा अद्रि॑जूत॒ः परि॒ द्यावा॑पृथि॒वी या॑ति स॒द्यः ॥

पदपाठः

अश्वि॑ना । परि॑ । वा॒म् । इषः॑ । पु॒रू॒चीः । ई॒युः । गीः॒ऽभिः । यत॑मानाः । अमृ॑ध्राः ।
रथः॑ । ह॒ । वा॒म् । ऋ॒त॒ऽजाः । अद्रि॑ऽजूतः । परि॑ । द्यावा॑पृथि॒वी इति॑ । या॒ति॒ । स॒द्यः ॥

सायणभाष्यम्

हे अश्विनौ पुरूचीः पुर्वञ्चन्ति गच्छन्तीति पुरूचीर्बहूनीषो हविर्लक्षणान्यनानि वां युवां परीयुः । परितो गच्छन्ति । तथामृध्राः केनाप्यतिरस्कृता यतमानाः कर्मणि प्रवर्तमानाः स्तोतारो गीर्भिः स्तुतिलक्षणाभिर्वाग्भिर्युवां परिचरन्ति । ऋतजा ऋतस्योदकस्य जनयिता । ऋते यज्ञे प्रादुर्भवतिति वा । अद्रिजूतः स्तोतृभिराकृष्तो वाअं युवयो रथो द्यावापृथिवी द्यावापृथिव्यौ सद्यस्तदानीमेव परियाति ह । सर्वतः प्राप्नोति खलु । अश्विनो रथस्य वेगवत्त्वे मन्त्रवर्णः । यो वामश्विना मनसा जवीयान्रथः स्वश्वो विश आजिगाति । ऋग्वे. १-११७-२ । इति । अतः कारणादस्मदीयं यज्ञं प्रत्यागच्छतमिति भावः । ईयुः । इण् गतावित्यस्य लिटि दीर्घ इणः कितीत्यभ्यासस्य दीर्घः । पादादित्वादनिघातः । यतमानाः । यतीप्रयत्न इत्यस्य शानचि रूपम् । शपः पित्त्वादनुदात्तत्वे शानचो लसार्वधातुकस्वरेणानुदात्तत्वे धातुस्वरः । ऋतजाः । जनेर्विट् । विड्वनोरित्यात्वम् । अद्रिजूतः । जू इति सौत्रो धातुः । कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदस्वरः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः