मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५८, ऋक् ९

संहिता

अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकु॒ः सोम॒स्तं पा॑त॒मा ग॑तं दुरो॒णे ।
रथो॑ ह वां॒ भूरि॒ वर्प॒ः करि॑क्रत्सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः ॥

पदपाठः

अश्वि॑ना । म॒धु॒सुत्ऽत॑मः । यु॒वाकुः॑ । सोमः॑ । तम् । पा॒त॒म् । आ । ग॒त॒म् । दु॒रो॒णे ।
रथः॑ । ह॒ । वा॒म् । भूरि॑ । वर्पः॑ । करि॑क्रत् । सु॒तऽव॑तः । निः॒ऽकृ॒तम् । आऽग॑मिष्ठः ॥

सायणभाष्यम्

हे अश्विनौ यः सोमो मधुषुत्तमो मधुरसमत्यन्तं प्रेरय्यन्युवातुयुवां कामयमानो वर्तते । यद्वा । युवाकुर्वसतीवरी प्रभृतिभिर्मिश्रित इत्यर्थः । तमिमं सोमं पातम् । पिबतम् । दुरोणेऽस्माकं गृह आ गतम् । आगच्छतम् । भूरि प्रभूतं वर्पो वारकं तेजः रूपं वा सर्वैर्वरणीयं धनं वा करिक्रत्पुनः पुनः कुर्वन्वां युवयो रथः सुतवतः सोममभिषुतवतो यजमानस्य निष्कृतम् । निरित्येष समित्येतस्य स्थाने । नि. १२-७ । इति यास्कः । संस्कारि । यद्वा । संस्कृतं गृहमागमिष्ठोऽतिशयेनागच्छन् भवति । युवाकुः । यौतेः कटिकुषिभ्यां काकुरिति बाहुलकादस्मादपि भवति । प्रत्ययस्वरेण मध्योदात्तः । करिक्रत् । करोतेर्यङ्लुकि शतरि दाधर्ति दर्धति दर्धर्षीत्यादिना चुत्वाभावे यणादेशे कृतेऽङ्गस्यानृकारान्तत्वादभ्यासस्य रिगागमो न प्राप्नोतीति सोऽपि निपात्यते । अभ्यस्तस्वरः । निष्कृतम् । करोतेरादिकर्मणि क्तः । संस्कर्तुं प्रवृश्त इत्यर्थः । थाथादिस्वरः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः