मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५९, ऋक् २

संहिता

प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ ।
न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मंहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ॥

पदपाठः

प्र । सः । मि॒त्र॒ । मर्तः॑ । अ॒स्तु॒ । प्रय॑स्वान् । यः । ते॒ । आ॒दि॒त्य॒ । शिक्ष॑ति । व्र॒तेन॑ ।
न । ह॒न्य॒ते॒ । न । जी॒य॒ते॒ । त्वाऽऊ॑तः । न । ए॒न॒म् । अंहः॑ । अ॒श्नो॒ति॒ । अन्ति॑तः । न । दू॒रात् ॥

सायणभाष्यम्

देवसुवां हविःषु मित्रस्य सत्यस्य प्र स मित्रेति याज्या । एषैव प्रातर्होमस्य कालात्ययनिमित्ते मृत्रे चरौ याज्या । सूत्रितं च । प्र स मित्र मर्तो अस्तु प्रयस्वां स्त्वां नष्टवान्महिमाय पृच्छते । आ. ४-११ । इति । तत इष्टिर्मित्रः सूर्योऽभि यो महिना दिवं प्र स मित्र मर्तो अस्तु प्रयस्वानिति संस्थितायाम् । आ. ३-१२ । इति च ॥

हे आदित्य व्रतेन यज्ञेन युक्त यो मनुष्यस्ते तुभ्यं शिक्षति हविर्लक्षणमन्नं ददाति हे मित्र स मर्तो मनुष्यः प्रयस्वानन्नवान् प्रास्तु । प्रभवतु । त्वोतस्त्वया रक्षितः स मनुष्यः केनापि न हन्यते न बाध्यते । न जीयते । नाभिभूयते च । एनं तुभ्यं हविर्दत्तवन्तं पुरुषमहः पापमन्तितः समीपान्नाश्नोति । न प्राप्नोति । दूरादपि न प्राप्नोति । शिक्षतिर्दानकर्मा । व्यत्ययेन परस्मैपदं यद्वृत्तयोगादनिघातः । जीयते । जयतेः कर्मणि यक्यकृत्सार्वधातुकयोरिति दीर्घः । त्वोतः । तृतीया कर्मणीति पूर्वपदस्वरः । अश्नोति । अशू व्याप्तौ । स्वादिः । व्यत्ययेन परस्मै पदं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः