मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५९, ऋक् ३

संहिता

अ॒न॒मी॒वास॒ इळ॑या॒ मद॑न्तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।
आ॒दि॒त्यस्य॑ व्र॒तमु॑पक्षि॒यन्तो॑ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या॑म ॥

पदपाठः

अ॒न॒मी॒वासः॑ । इळ॑या । मद॑न्तः । मि॒तऽज्ञ॑वः । वरि॑मन् । आ । पृ॒थि॒व्याः ।
आ॒दि॒त्यस्य॑ । व्र॒तम् । उ॒प॒ऽक्षि॒यन्तः॑ । व॒यम् । मि॒त्रस्य॑ । सु॒ऽम॒तौ । स्या॒म॒ ॥

सायणभाष्यम्

देवसुवां हविःषु मित्रस्य सत्यस्यानुवाक्या । अनमीवास इळया मदन्तः प्र समित्र वर्तो अस्तु प्रयस्वानिति सूत्रितम् । आ. ४-११ ।

हे मित्र अनमीवासो रोगवर्जिता इळयान्नेन मदन्तो माद्यन्तः पृथिव्यावरिमन्विस्तीर्णे प्रदेश मितज्ञवो मितजानुका आ यथाकामं सर्वत्र गच्छन्त आदित्यस्य संबन्धि व्रतं कर्मोपक्षियन्तस्तस्य कर्मणः समीपे निवसन्तः । तदीयं कर्म कुर्वाणा इत्यर्थ । तादृशा वयं मित्रस्यादित्यस्य सुमतौ शोभनायामनुग्रहबुद्ध्यां स्याम । वर्तेमहि । मदन्तः । मदी हर्ष इत्यस्य शतरि व्यत्ययेन शप् । मितज्ञवः । जानुशब्दस्य ज्ञुश्छान्दसः । वरिमन् । उरुशब्दात्पृथ्वादित्वादिमनिच् । प्रियस्थिरेत्यादिना वरादेशः । सुपां सुलुगिति सप्तम्या लुक् । व्यत्ययेनाद्युदात्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः