मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५९, ऋक् ४

संहिता

अ॒यं मि॒त्रो न॑म॒स्य॑ः सु॒शेवो॒ राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः ।
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

पदपाठः

अ॒यम् । मि॒त्रः । न॒म॒स्यः॑ । सु॒ऽशेवः॑ । राजा॑ । सु॒ऽक्ष॒त्रः । अ॒ज॒नि॒ष्ट॒ । वे॒धाः ।
तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥

सायणभाष्यम्

अयं पूर्वमन्त्रे प्रतिपादितो मित्रः सूर्यो नमस्यः सर्वैर्नमस्करणीयः सुशेवः शोभनसुखः । सुखेन सेव्य इत्यर्थः । राजा सर्वस्य जगतः प्रकाशप्रदानेन स्वामी सुक्षत्रः । क्षत्रशब्देन बलमुच्यते । शोभनबलोपेतो वेधाः सर्वस्य जगतो विधाता । एवं गुणोपेतः सूर्योऽजनिष्ट । प्रादुरभूत् । तस्यैवं विधगुणोपेतस्य यज्ञियस्य यज्ञार्हस्य सूर्यस्य सुमतौ शोभनायां बुद्ध्यां भद्रे कल्याणकारिणि स्ॐअनसे स्ॐअनस्येऽपि यजमाना वयं स्याम । भवेम । नमस्यः नमसि साधुः । तत्र साधुरिति यत् । तित्स्वरितः । आजनिष्ट । जनी प्रादुर्भाव इत्यस्य लुङि सिचि रूपम् । स्ॐअनसे । सुमनस इदमित्यर्थे तस्येदमित्यण् । प्रत्ययस्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः