मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५९, ऋक् ७

संहिता

अ॒भि यो म॑हि॒ना दिवं॑ मि॒त्रो ब॒भूव॑ स॒प्रथा॑ः ।
अ॒भि श्रवो॑भिः पृथि॒वीम् ॥

पदपाठः

अ॒भि । यः । म॒हि॒ना । दिव॑म् । मि॒त्रः । ब॒भूव॑ । स॒ऽप्रथाः॑ ।
अ॒भि । श्रवः॑ऽभिः । पृ॒थि॒वीम् ॥

सायणभाष्यम्

प्रातर्होमस्य कालात्यये मैत्रेष्टिः । तस्यामभि यो महिनेत्यनुवाक्या । सूत्रितं च । अभि यो महिना दिवं प्र स मित्र मर्तो अस्तु प्रयस्वान् । आ. ३-१२ । इति ।

यो मित्रो महिना स्वकीयेन महिम्ना दिवमन्तरिक्षमभि बभूवाभिभवति स मित्रः सप्रथाः प्रथः प्रसिद्धिः कीर्तिः । तत्सहितः श्रवोभिर्वृष्टिद्वारोत्पादितैरन्नैः पृथिवीमप्यभिभवति । बह्वन्नयुक्तां करोतीत्यर्थः । सप्रथाः । पथ प्रख्याने । असुन् । वोपसर्जनस्येति सहस्य सभावः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः