मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५९, ऋक् ९

संहिता

मि॒त्रो दे॒वेष्वा॒युषु॒ जना॑य वृ॒क्तब॑र्हिषे ।
इष॑ इ॒ष्टव्र॑ता अकः ॥

पदपाठः

मि॒त्रः । दे॒वेषु॑ । आ॒युषु॑ । जना॑य । वृ॒क्तऽब॑र्हिषे ।
इषः॑ । इ॒ष्टऽव्र॑ताः । अ॒क॒रित्य॑कः ॥

सायणभाष्यम्

मित्रो भववानादित्यो देवेषु द्योतमानादिगुणयुक्तेष्वायुषु मनुष्येषु मध्ये यो जनो व्रुक्तबर्हिः । वृक्तं लूनं बर्हिर्येन सः । बर्हिर्लवनासादनपुर्वं हविषो दाता ऋत्विगित्यर्थः । तस्मै व्रुत्कबर्हिषे जनायेष्टव्रताः । इष्टानि कल्याणानि व्रतानि कर्माणि याभिः सिध्यन्ति ता इषस्तादृशान्यन्नान्यकः । करोति । तस्मै ददातीत्यर्थः । व्रुक्तबर्हिषे । ओव्रश्चू छेदने । कर्मणि निश्ठायां यस्य विभाषेतीट् प्रतिषेधः । बहुव्रीहौ पूर्वपदस्वरः । अकः । करोतेर्लु~इ च्लेर्मन्त्रे घसेत्यादिना लुक् । सिपो हल्ङ्यादिलोपः । निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः