मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६०, ऋक् १

संहिता

इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता॑ नर उ॒शिजो॑ जग्मुर॒भि तानि॒ वेद॑सा ।
याभि॑र्मा॒याभि॒ः प्रति॑जूतिवर्पस॒ः सौध॑न्वना य॒ज्ञियं॑ भा॒गमा॑न॒श ॥

पदपाठः

इ॒हऽइ॑ह । वः॒ । मन॑सा । ब॒न्धुता॑ । न॒रः॒ । उ॒शिजः॑ । ज॒ग्मुः॒ । अ॒भि । तानि॑ । वेद॑सा ।
याभिः॑ । मा॒याभिः॑ । प्रति॑जूतिऽवर्पसः । सौध॑न्वनाः । य॒ज्ञिय॑म् । भ॒गम् । आ॒न॒श ॥

सायणभाष्यम्

हे ऋभवो वो युष्माकं बन्धुता । बध्नन्ति फलेन संयोजयन्तीति बन्धवः कर्माणि । तेषां समूहो बन्धुता । इहेह सर्वत्र मनसा सर्वैर्ज्ञायते । नरो हि मनुष्या ऋभव उशिजो यज्ञभागम् कामयमाना भवन्तो वेदसा यज्ञभागप्रपककर्मविषयज्ञानेन तानि ताद्रुशानि कर्माण्यभि जग्मुः । प्राप्नुवन्ति । कानि तानि । मायाभिः । मीयन्ते ज्ञायन्त इति मायाः कर्माणि । याभिर्मायाभिर्यै कर्मभिः प्रतिजूतिवर्पसः प्रतिपक्षाभिभवनशीलतेजोयुक्ताः सौधन्वनाः । सुधन्वनामाङ्गिरसः पुत्रः कश्चिद्रुषिः । तस्य पुत्राः सौधन्वनाः । ते च त्रय ऋभुर्विभ्वा वाज इति । एतन्नामका यूयं यज्ञियं यज्ञार्हं भागं सोमपानादिलक्षणमानश । प्रप्ताः स्थ । तथा च मन्त्रवर्नः । ऋभुर्विभ्वा वाजो देवा आगच्छत स्वपसो यज्ञियं भागमैतन । ऋग्वे. १-१६१-६ । इति । अयमर्थो ब्राह्मणे‍प्यृभवो वै देवेशु तपसा सोमपीथमभ्यजयन्नित्यत्रोपख्यानपुर्वकं स्पष्टमभिहितं यद्वा । नरः कर्मणां नेतारो हे ऋभव उशिजः कामयमाना वेदसा हविर्लक्षणेन धनेन युक्ताः स्तोतारो वो युष्माकं तानि चमसतक्षणादीनि कर्माणि बन्धुता बन्धुतय सख्येन मनसा जग्मुः । अभिगच्छन्ति । कानीत्याशंकायामाह । यैश्चमसतक्षणादिभिः कर्मभिर्यज्ञार्हं भागं यूयमाभिततान्यभिगच्छन्ति । युष्माकं बुद्धिनैपुणानि चिन्तयन्तीत्यर्थः । इहेह नित्य योरिति द्विर्वचनम् । परस्याम्रेडितत्वादनुदात्तत्वे पूर्वपदस्वरः । बन्धुता । बन्ध बन्धने । शॄस्वृस्निहीत्यादिना कर्तर्युप्रत्ययः । समूह इत्यर्थे ग्रामजनबन्धुसहायेभ्यस्तल् । पा. ४.२.४३ । इति तल् । लित्स्वरः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः