मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६०, ऋक् २

संहिता

याभि॒ः शची॑भिश्चम॒साँ अपिं॑शत॒ यया॑ धि॒या गामरि॑णीत॒ चर्म॑णः ।
येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भव॒ः समा॑नश ॥

पदपाठः

याभिः॑ । शची॑भिः । च॒म॒सान् । अपिं॑शत । यया॑ । धि॒या । गाम् । अरि॑णीत । चर्म॑णः ।
येन॑ । हरी॒ इति॑ । मन॑सा । निः॒ऽअत॑क्षत । तेन॑ । दे॒व॒ऽत्वम् । ऋ॒भ॒वः॒ । सम् । आ॒न॒श॒ ॥

सायणभाष्यम्

हे ऋभवो याभिः शचीभिः शक्तिश्चमसान् चतुरोऽपिंशत विभक्तवन्तःस्थ । यया धिया प्रज्ञया गां मृतामरिणीत चर्मण चर्मणा योजनात्प्रापितवन्तः स्थ । येन मनसा प्रज्ञानेन हरी एतन्नामकाविन्द्रस्याश्वौ निरतक्शत नितरामकुरुत । तथायं मन्त्रवर्नः । य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी । ऋग्वे. १-२०-२ । इति । तेन सर्वेणानेन कर्मणा देवत्वं यज्ञभागार्हत्वलक्षणं देवभावं समानश । सम्यक् प्राप्ताः स्थः । आपिंशत । पिश अवयवे । तुदादिः । तस्य लङि मध्यमे रूपम् । यद्वृत्तयोगादनिघातः । आरिणित । री गतिरेषणयोः । क्र्यादिः । तस्य लङि रूपम् । अत्रापि पूर्ववदनिघातः । निरतक्शत । तक्षू त्वक्शू तनूकरणे । लङि रूपम् । पूर्वपदनिघाते तिङि चोदात्तवतीति गतेर्निघातः । अडुदात्तः । आनश । अश्नोतेर्लिटि रूपम् । निघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः