मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६०, ऋक् ३

संहिता

इन्द्र॑स्य स॒ख्यमृ॒भव॒ः समा॑नशु॒र्मनो॒र्नपा॑तो अ॒पसो॑ दधन्विरे ।
सौ॒ध॒न्व॒नासो॑ अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी॑भिः सु॒कृतः॑ सुकृ॒त्यया॑ ॥

पदपाठः

इन्द्र॑स्य । स॒ख्यम् । ऋ॒भवः॑ । सम् । आ॒न॒शुः॒ । मनोः॑ । नपा॑तः । अ॒पसः॑ । द॒ध॒न्वि॒रे॒ ।
सौ॒ध॒न्व॒नासः॑ । अ॒मृ॒त॒ऽत्वम् । आ । ई॒रि॒रे॒ । वि॒ष्ट्वी । शमी॑भिः । सु॒ऽकृतः॑ । सु॒ऽकृ॒त्यया॑ ॥

सायणभाष्यम्

मनोर्नपातो मनुष्यस्याङ्गिरसः पुत्रा अपसो यागादिलक्षणकर्मवन्त ऋभव इन्द्रस्य सख्यं समानख्यानत्वं समानशुः । सम्यक् प्राप्नुवन् । तथेन्द्रस्य सख्यं प्राप्तस्त ऋभवो दधन्विरे । पूर्वं मनुषुयत्वेन मरनयोग्या अपीदानीमिन्द्रस्य सख्येन प्राणान्धारयन्ति । तथा मन्त्रः । अधारयन्त वह्नयः । ऋग्वे. १-२०-८ । इति । सौधन्वनासः सुधन्वनामकस्यर्षेः पुत्रा ऋभवः सुकृतः शोभनकर्माणः सन्तः प्रभूतैः शमीभिर्देवत्वप्राप्तिप्रतिबन्धनिवारणहेतुभिः कर्मभिः सुकृत्यया शोभनेन कर्मना च विष्ट्वी व्याप्यामृतत्वमेरिरे । देवत्वं प्रापुः । तथा च मन्त्रान्तरमाम्नायते । मर्तासः सन्तो अमृतत्वमानशुः । ऋग्वे. १-११०-४ । इति । नपातः । नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । दधन्विरे । धविर्गत्यर्थः । व्यत्ययेनात्मनेपदम् । लिटि रूपम् । ईरिरे । ईर गतौ । मन्त्रत्वादाम्न भवति । निघातः । सुकृत्यया । करोतेर्भावे कृञः श चेति क्यप् । प्रत्ययस्य व्यत्ययेनान्तोदात्तत्वम् । समासे कृदुत्तरस्वरः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः