मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६०, ऋक् ४

संहिता

इन्द्रे॑ण याथ स॒रथं॑ सु॒ते सचाँ॒ अथो॒ वशा॑नां भवथा स॒ह श्रि॒या ।
न वः॑ प्रति॒मै सु॑कृ॒तानि॑ वाघत॒ः सौध॑न्वना ऋभवो वी॒र्या॑णि च ॥

पदपाठः

इन्द्रे॑ण । या॒थ॒ । स॒ऽरथ॑म् । सु॒ते । सचा॑ । अथो॒ इति॑ । वशा॑नाम् । भ॒व॒थ॒ । स॒ह । श्रि॒या ।
न । वः॒ । प्र॒ति॒ऽमै । सु॒ऽकृ॒तानि॑ । वा॒घ॒तः॒ । सौध॑न्वनाः । ऋ॒भ॒वः॒ । वी॒र्या॑णि । च॒ ॥

सायणभाष्यम्

हे ऋभवो यूयमिन्द्रेण सचा सह सरथं समानमेकं रथमारुह्य सुतेऽभिषुतसोमवति यज्ञे याथ । गच्छथ । अथो अनन्तरमिन्द्रेण सहैकरथमारूढा यूयं वशानाम् । उश्यते काम्यते यजमानेन स्वर्गादिलक्षणं फलमेभिरिति वशा मनुष्याः । तेषां श्रिया स्तुतिहविरादिरूपया सह भवथ । हे सौधन्वनाः सुधन्वनः पुत्रा वाघतोऽमृतत्वादिलक्षणफलस्य वोधारो मेधाविनो वेति यास्कः । तादृशा हे ऋभवो वो युष्माकं सुकृतानि देवत्वस्य प्रापकाणि शोभनानि कर्माणि न प्रतिमै । प्रतिमातुमियत्तया परिच्छ्त्तुं न केनापि शक्यानि । तथा वीर्याणि युष्माकं सामर्थ्यानि च नैव प्रतिमातुं शक्यानि । वशानाम् । वश कान्तौ । वशिरण्योरुपसंख्यानमिति करणेऽप्प्रत्ययः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । वशाशब्दो बन्ध्यावचनश्चेदन्तोदात्तो भवति । वशा मेषा अवसृष्टास आहुताः । ऋग्वे. १०-९१-१४ । इति । वः । युष्मच्छब्दस्य षष्ठी बहुवचने वसादेशः । निघातः । प्रतिमै । माङ् माने । विच् । प्रतिमाः प्रतिमानम् । तस्य चतुर्थ्येकवचन आतो लोपश्छान्दसः । एकादेशस्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः