मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् २

संहिता

अ॒यमु॑ वां पुरु॒तमो॑ रयी॒यञ्छ॑श्वत्त॒ममव॑से जोहवीति ।
स॒जोषा॑विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं॑ मे ॥

पदपाठः

अ॒यम् । ऊं॒ इति॑ । वा॒म् । पु॒रु॒ऽतमः॑ । र॒यि॒ऽयन् । श॒श्व॒त्ऽत॒मम् । अव॑से । जो॒ह॒वी॒ति॒ ।
स॒ऽजोषौ॑ । इ॒न्द्रा॒व॒रु॒णा॒ । म॒रुत्ऽभिः॑ । दि॒वा । पृ॒थि॒व्या । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥

सायणभाष्यम्

हे इन्द्रावरुणौ रयीयन् रयिमात्मन इच्छन्नयमु पुरुतमो वैदिककर्मप्रवृत्ततयातिशयेन पुरुर्महान्यजमानोऽवसे रक्षणायान्नाय वा वां युवां शश्वत्तमं सर्वदा जोहवीति । भृशमाह्वयति । मरुद्भिर्देवविशेषैर्दिवा पृथिव्या च सजोषौ सङ्गच्छन्तौ युवां मे मम हवं युष्मदीयमाह्वानं शृणुतम् । पुरुतमः । तमपो व्यत्ययेनाद्युदात्तत्वम् । जोहवीति । ह्वयतेर्यङ् लुक्यभ्यस्तस्य चेति सम्प्रसारने रूपम् । दिवा । ऊडिदमिति विभक्तेरुदात्तत्वम् । पृथिव्या । उदात्तयणो हल्पूर्वादित्युदात्तत्वम् । हवम् । ह्वयतेर्भावेऽनुपसर्गस्येत्यप् । प्रत्ययस्य पित्त्वादनुदात्तत्वं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः