मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् ३

संहिता

अ॒स्मे तदि॑न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुत॒ः सर्व॑वीरः ।
अ॒स्मान्वरू॑त्रीः शर॒णैर॑वन्त्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ॥

पदपाठः

अ॒स्मे इति॑ । तत् । इ॒न्द्रा॒व॒रु॒णा॒ । वसु॑ । स्या॒त् । अ॒स्मे इति॑ । र॒यिः । म॒रु॒तः॒ । सर्व॑ऽवीरः ।
अ॒स्मान् । वरू॑त्रीः । श॒र॒णैः । अ॒व॒न्तु॒ । अ॒स्मान् । होत्रा॑ । भार॑ती । दक्षि॑णाभिः ॥

सायणभाष्यम्

हे इन्द्रावरुणावस्मे अस्मासु तदभिलषितं तादृशं वसु धनं स्यात् । भवतु । हे मरुतः सर्ववीरः सर्वेषु कर्मसु वीरः समर्थो रयिः पुत्र पौत्र युक्तः पशुसङ्घः । पशवो वै रयिरिति तैत्तिरीयकम् । सोऽस्मे अस्माकं भवतु । वरूत्रीः सर्वैः सम्भजनीया देवपल्यः शरणैः । शृण्वन्ति शीतादिक्लेशमिति शरणानि गृहाम् । तैरस्मानवन्तु । होत्रा । हूयन्तेऽस्यां हवींषीति । यद्वा । हूयते तत्र प्राण इति होत्रा वाक् । तथा च श्रुतिः । वाचि हि प्राणं जुहुमः प्राणे वा वाचम् । कौ. उ. २-५ । इति । यद्वा । होत्रेति यज्ञनाम । हूयते तत्र हविरिति । यज्ञश्च वागुच्यते । वाचं यच्छन्ति वाग्वै यज्ञः । ऐ. ब्रा. ५-२४ । इति ब्राह्मणम् । तादृशी भारती सरस्वती दक्षिणाभिर्गोरूपाभिर्दक्षिणाभिः । यद्वा । उदाराभिर्वग्भिरस्मान् पालयतु । वसुष्यादित्यत्र संहितायां पूर्वपदादिति षत्वम् । वरूत्रीः । ग्रसितस्कभितेत्यादिना ङीबन्तत्वेन निपातनादिष्टसिद्धिः । होत्रा । हु दानादनयोः । हुयामाश्रुभसिभ्यस्त्रन्नित्यधिकरणे त्रन्प्रत्ययः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः